पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
74
[अरण्यकाण्ड:
आश्रममण्डलवासः



ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे |
ददृशुः सहिता रम्यं तटाकं योजनायतम् ।। ५ ।।

 दिवाकरे लम्बमान इति - साया इत्यर्थः । योजनायतं- चतुर्दिग्योजनप्रमाण,विस्तारम् ॥ ५ ॥

 [१]पद्मपुष्करसंचाधं गजयूथैरलङ्कृतम् ।
सारसैः हंस [२]कादम्बैः सङ्कुलं जल [३]जातिभिः ॥ ६ ॥

 पद्मानां पुष्करे-जले संबाधः-नैबिड्यं यस्मिन् तत्तथा । गज- यूथैरलङ्कृतमिति । तीरप्रदेश इति शेषः | हंसा:- राजहंसाः । कादम्बा:- कलहंसाः | जले जाति:-जन्म येषां ते तथा, मत्स्यादि- जलजन्तवः इत्यर्थः । एवं पङ्कः । जलचारिभिरिति पौराणिकेच्छा ॥६॥

प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे
गीतवादित्रनिर्घोषः न तु कश्चन दृश्यते ।। ७ ।।

 गीतोपेतानां वादित्राणां - चतुर्विधवाद्यानां निर्घोषः तथा । न तु कश्चन- गीतादिकर्तेत्यर्थः ॥ ७ ॥

ततः कौतूहलाद्रामः लक्ष्मणश्च [४] महाबलः ।
मुनिं [५] धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥

 धर्मेण भृतः धर्मभृतः इति अकारान्तः, विचन्तो वा ॥ ८ ॥}}



  1. पद्मानि-रक्तानि, पुष्करं-पुण्डरीकं-ति. रा. पद्मैः पुष्करैः--सपैं:-गो.
  2. कारण्डै:-ङ.
  3. चारिमि:-ङ.
  4. महारथः
  5. सहागतेषु मुनिष्वन्यतमम्-गो. शरणागतेष्वनु रायिष्वेकम्-ति.