पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
72
[अरण्यकाण्ड:
रक्षोवषसमर्थनम्



[१]अप्यहं जीवितं जह्यां त्वां वा, सीते! सलक्ष्मणाम् ।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १९ ॥

तदवश्यं मया कार्य ऋषीणां परिपालनम् ।
अनुक्तेनापि, वैदेहि ! प्रतिज्ञाय तु किं पुनः ॥ २० ॥

 अनुक्तेनापति । ऋषिभिरिति शेषः ॥ २० ॥


[२]मम स्नेहाच सौहार्दात् इदमुक्तं त्वयाऽनघे !
परितुष्टोऽस्म्यहं, सीते! न ह्यनिष्टोऽनुशिष्यते ॥ २१ ॥

 स्नेहः- प्रीतिः ।सौहार्द- सुहृद्भावः । न ह्यनिष्टोऽनुशिष्यत इति । यस्मिन् यस्य प्रीतिः नास्ति, नासौ अनुशिष्यते हितं,उपेक्ष्यत एवेत्यर्थः ॥ २१ ॥

सदृशं [३] चानुरूपं च कुलस्य तव [४] चात्मनः ।
सधर्मचारिणी [५] मे त्वं प्राणेभ्योऽपि गरीयसी ।। २२ ।।

इत्येवमुक्ता वचनं महात्मा
 सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणन
 जगाम रम्याणि तपोवनानि ॥ २३ ॥

 इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे दशमः सर्गः





गुरु(२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे दशमः सर्गः



  1. आत्मानं सततं रक्षेत् दारैरपि धनैरपि' इत्युक्तं जीवितमपि जयाम् ।
    भ्राता स्वा मूर्तिरात्मनः' इत्युक्तं लक्ष्मणमपि जयाम् । किं पुनः—' अर्थों वा एष
    आत्मनो यत्पनी' इत्युक्तां त्वां-- गो.
  2. मयि-ङ,
  3. चानुकूलं- ङ.
  4. शोभने-ज.
  5. नियं-ङ.