पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
68
[अरण्यकाण्ड:
रोधसमर्थनम्


 एवं धर्मधिया सीतया बोधितरक्षोवघनिवर्तनो रामः तस्य धर्म्यतां तद्वाक्याविरोधेनैव दर्शयति । वाक्यमित्यादि । संवर्धितः- संवर्धितधर्मबोषः । एवं पाङ्क: [१] ||१||

हितमुक्तं त्वया, देवि ! स्निग्धया सदृशं वचः ।
[२]कुलं व्यपदिशन्त्या [३] धर्मज्ञे ! जनकात्मजे ! ॥ २ ॥

 कुलं व्यवदिशन्त्या चेति । 'क्षत्रियाणां हि वीराणां' इत्या- दिना कुलधर्मं व्यपदिशन्त्या इत्यर्थः ॥ २ ॥

[४] किं तु वक्ष्याम्यहं, देवि ! त्वयैवोक्तमिदं वचः |
क्षत्रियैः धार्यते चापः नार्तशब्दो भवेदिति ॥ ३ ॥

 इदं वचः इति इदंशब्दः क्षत्रियैर्धार्यते इत्यादिपरः । आर्तशब्दो न भवेदिनि । रक्षकामावेन आर्तानां शब्द मा भूत् इत्येतदर्थमेव क्षत्रियैश्चापोधार्यते इतीदं अर्थतत्त्वमुद्दिश्य त्वयोक्तम् –'धनुषा कार्यमेतावत् आर्तानामभिरक्षणम्' इति वाक्येनेति शेषः || ३ ||

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।
मां, सीते!
[५] स्वयमागम्य [६]शरण्याः शरणं गताः ॥ ४ ॥

 तद्वचनस्य चायमनुष्ठानकाल एवेत्याह--ते चेत्यादि । स्वय- मागम्य शरणं गताः इति । एतेन न मया वीर्यगर्वादिदोषेण रक्षोवघार्थं प्रवर्त्यते इत्युक्तं भवति ॥ ४ ॥



  1. तीर्थगोविन्दराजी पयो: 'धर्मे नि: ' इति पाठ: । संवर्धित इति पाठेऽपि " जानोत्साहः' इत्यर्थः स्वरसः ॥
  2. कुलं व्यपदिशन्त्या स्वमहाकुलीनत्वं प्रख्याप-यन्त्या - गो.
    व्यपदेशाई कुलप्रसूतया-सस्कुलप्रसूतया - इति परमतात्पर्यम् ।
  3. चजनकरय महात्मनः- ङ.
  4. किं नु वक्ष्या-ज.
  5. स्वयगितयनेन - अत्र न स्वार्थ: कश्चिदित्युच्यते ।
  6. शरण्यं-ड.