पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
280
अरण्यकाण्ड:
सौवर्णमृगदर्शनम्

 न मृष्यसे- प्रतिकूलबुद्ध्या न परिगृह्णासीत्यर्थः । परेतकल्पा:-मृतप्रायाः । नीर (२०)मानः सर्गः ॥ २० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकचत्वारिंशः सर्ग:

द्विचत्वारिंशः सर्गः

[सौवर्णमृगदर्शनम् ]

एवमुक्ता तु 'वचनं मारीचो रावणं [१] ततः ।
गच्छावेत्यब्रवीद्दीनः भयाद्रात्रिंचरप्रभोः ॥ १ ॥

 अथ बलात् निर्गतस्य कनकमृगभूतमारीचस्य सीताया दर्शनम् । एवमुक्तेत्यादि । गच्छावेति संप्रश्न लोट् ॥ १ ॥

{{bold|<poem>दीन इत्युक्तं दौरथ्यमुपपादयति - दृष्ट इत्यादिभिः । यद्यहं तेन दृष्टः तदा मे जीवितं विनष्टमित्यन्वयः- गो.

दृष्टवाहं पुनस्तेन शरचापासिधारिणा ।

मद्वधोद्यतशस्त्रेण [२] विनष्टं जीवितं च मे ॥ २ ॥</poem>}}

 गच्छन् निजं दुःखं चाह - दृष्टश्चाइमित्यादि । पुनश्वाहं यदाऽद्य दृष्टो भविष्यामि, तदा उच्यमानविशेषेण रामेण मे जीवित विनष्टमेव ; चकारात् तव जीवितं चेत्यन्वाचीयते ॥ २ ॥

न हि रामं पराक्रम्य जीवन् प्रतिनिवर्तते ।
[३] वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ ३ ॥


  1. तदा-ङ,
  2. निहतं ज.
  3. यमदण्डहतस्य ते प्रतिरूनः – सदृशः असौ जनः वर्तते । त्ववाहमपि यमदण्डहत इत्यर्थ:- गो. रावणवधाङ्गतया स्ववधं पश्यन् मारीच एमाह ।
    परुषं-ज.