पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१ सर्ग:]
277
ततः पुनरपि प्रोक्त: नाश्राषीत् रावणो हितम्

धर्ममर्थ च कामं च यशश्च, जयतां वर !
[१] स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति, निशाचर ! ॥ ८ ॥
विपर्यये तु तत्सर्वं व्यर्थ भवति, रावण!
[२] व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ ९ ॥

 स्वामिवैगुण्यं - -उत्पथवृत्तिः ॥ ९ ॥

राजमूलो हि धर्मश्र [३]जयश्र, जयतां वर !
तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ १० ॥
राज्यं पालयितुं शक्यं न तीक्ष्णेन, निशाचर !
[४]चापि प्रतिकूलेन [५]नाविनीतेन, राक्षस ! ॥ ११ ॥

 तीक्ष्णेनेति । क्रूरदण्डेनेति यावत् । प्रतिकूलेनेति । स्वप्रकृतीनामिति शेषः ।। ११ ।।

ये तीक्ष्णमन्त्राः सचिवाः भज्यन्ते सह तेन वै
[६]विषमे तुरगाः शीघ्राः मन्दसारथयो यथा ।। १२ ।।

 तीक्ष्णमन्त्राः–तीक्ष्णोपायप्रयोक्तारः । तेनेति । स्वमन्त्र- ग्राहिराज्ञेत्यर्थः । मन्दः - मन्दबुद्धिः अकुशलः सारथिः येषां ते मन्दसारथयः यथा तेन सारथिना सह नश्यन्ति तद्वत् ।। १२ ।।

बहवः साधवो लोक {{bold|<poem>युक्तधर्म-ज.

युक्ता धर्ममनुष्ठिताः ।

परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन, रावण ! रक्ष्यमाणः न वर्धन्ते [७]मेषा गोमायुना यथा ॥ १४ ॥</poem>}}


  1. स्वामिनः यजमानस्य स्वास्थ्ये सर्व इष्टं प्राप्येत, स्वामिन एवापाये विपर्ययः सिद्ध एवेत्याशय: ।
  2. स्वामिवैगुण्यात न केवलममात्या एव नश्यन्ति, किन्तु तदितरेऽपि जना इत्याह – व्यसन मिति-गो.
  3. यशश्च - ज.
  4. चाति-ज.
  5. अविनीतेन-इन्द्रियजयरहितेन, 'विनयो हीन्द्रियजय: ' इति कामन्दकः - गो.
  6. विषमेषु रथा:-ज.
  7. मृगा-ज.