पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
274
[अरण्यकाण्ड:
मारीचभर्त्सनम्

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखं ।
[१] 'आनयिष्यामि वैदेहीं [२] सहस्राक्षः शचीमिव ॥ २२ ॥
एवं कृत्वा त्विदं कार्य यथेष्टं गच्छ, राक्षस!
राज्यस्यार्ध [३]प्रयच्छामि, मारीच ! तव, सुव्रत ! ॥ २३ ॥
गच्छ, सौम्य ![४] शिवं मार्ग कार्यस्यास्य विवृद्धये ।
"अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥ २४ ॥

 शिवं मार्ग गच्छेति । सौम्यभावमास्थाय प्रस्थितो भवेत्यर्थः ॥ २४ ॥

प्राप्य सीतामयुद्धेन वञ्चयित्वा च [५] राघवम् ।
लङ्कां प्रतिगमिष्यामि कृतकार्यः सह त्वया ॥ २५ ॥
न चेत् करोषि, मारीच! हन्मि त्वामहमद्य वै ।
एतत् कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थः न जातु सुखमेधते ॥ २६ ॥

 अथ रावणो राजत्वात् अकरणे दण्डमाह-न चेदित्यादि ॥ २६ ॥ [६] आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य । एतद्यथावत् [७]प्रतिगृह्य बुद्धया [८]यदत्र पथ्यं कुरु तत् तथा त्वम् ॥ २७ ॥

इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चत्वारिंशः सर्गः


  1. आहरिष्यामि-ज.
  2. सहस्राक्षः शचीमित्रेति स्वबुद्धया ।
  3. प्रदास्यामि ज.
  4. मार्ग- मृगसम्बन्धिरू। शिवं मनोहरं गच्छ-गो. यद्वा न चेत्करोषि (२६) इति वक्ष्यमाणत्वात् तव निरपाय मार्ग गच्छेत्यर्थः ।
  5. राघवो ङ.
  6. राम+म्मुखगमने वारद्वयवत् अद्यापि जीवितसंशय एव, मद्विरोधे तु अद्यैव मृत्युस्तव निश्चित: अनयोः कः श्रेष्ठ: इत्यालोचयेति भावः ॥
  7. प्रतिगम्य - ङ.परिगण्य-ज.
  8. यद्रोचते तत्कुरु मा चिरेण-ङ.