पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
260
[अरण्यकाण्ड:
रामपराक्रमकथनम्

तस्मात् अष्टा- (अर. ४७-४) इति सीतया वक्ष्यमाणत्वात् । तथा च वनप्रवेशकाले रामस्याष्टा- विंशतिवर्षाणीति प्रतिभाति - तदनुपपन्नम् 'मम भर्ता महातेजाः वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ (अर. ४७-१०) इति सीतावचनात् । कौसल्यया च वनप्रवेशसमये प्रोच्यते – 'दश सप्त च वर्षाणि जातस्य तव पुत्रक | आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥' (अयो. २०-४५) इति । त्रिंशतेः, पञ्चविंशतेः, सप्तदशानां च कथमविरोध: ? इति चेत् - अत्र के चित्- कौसल्यावाक्ये जातस्येति द्वितीयं जन्मोच्यते । क्षत्रियस्यापि द्विजस्वात् । द्वितीयं जन्म च उपनयनम् । तच्च वृद्धेन दशरथेन काम्यपक्षमाश्रित्य गर्भाष्टम एव कृतम् । तथा च द्वितीयजन्मापेक्षया सप्तदशत्वम् । अनयनात्पूर्व सप्तवर्षाणीति 'वयसा पञ्चविंशक: ' इति सीतावचन-इत्यन्यत्रोक्तत्वात् मप्युपपन्नम् । ऊनषोडशवर्ष इति पादोनत्वम्, 'द्वादशवर्ष: ' (वस्तुतस्तु षोडशवर्षे एव क्षत्रियः कवचधारणार्हत्वात् युद्धार्ह इति - षोडशवर्षाः नैव पूर्णाः इति भावेन 'ऊनषोडशवर्षः इत्युक्ति: । न्यूनत्वं यथाप्रमाणं ग्राह्यम् ) | * अतः सर्वथा वनप्रवेशकाले पञ्चविंशतिवर्ष एव राम इत्याहु: । अन्ये बहुक्केशं सहमाना एवं ब्याचख्युः— भ्रष्टाविंशतिवर्ष एव वनप्रवेशे रामः । ‘ ऊनषोडशवर्ष: ' इति यत्किञ्चि- न्मासोनषोडशवर्षवयस्क इत्यर्थः । 'बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् • इति दशरथवचने बाल्ययौवनसन्धौ बाल इति व्यवहतुं शक्यत्वात्, 'बाल आषोडशाद्वर्षात् पौगण्डश्चेति कीयेते' इति वचनात् । 'बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः । अजातव्यञ्जन: श्रीमान् पद्मरत्रनिभेक्षणः ॥ (अर. ३८-६) इति मारीचवचनं तु युद्धभीरुतया भ्रान्तिकृतम्, रावणविभीषिकयोक्तं वा । अत एव स्वयं वायव्यास्त्र भनोऽपि अकृतास्त्र इत्याह (परन्तु इयमुक्ति: रामप्रथमदर्शने इत्यवधेयम्) अजातव्यञ्जनत्वं च निरुदरा कन्येतिवदल्पश्मश्रुत्वम् । वयसा पञ्चविंशकः' इति तु पञ्चविंशतुल्यत्वमाद, इवायें कनो विधानात् । तेन नित्ययौवनत्वं ज्ञापयति । देवा हि सदा पञ्चविंशति- बार्षीका इत्युच्यन्ते । कौसल्यावाक्यमपि 'गमैकादशेषु राजन्यम् इतिविहितोप- नयनापेक्षया । तस्मान्न किञ्चिदनुपपन्नमिति । वस्तुतः—'वयसा पञ्चविंशकः' इति सीतायाः शापभीतायाः सन्यासिनं प्रति (वास्तविकं सन्यासिनमेव सीता प्रथमं मन्यते स्म) बचनमेब यथार्थम् ---इति |