पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
258
[अरण्यकाण्ड:
रामपराक्रमकथनम्

अहं तु मन्ये तव न क्षमं रण
समागम कोसलराजनुना |
इदं हि भूयः शृणु वाक्यमुत्तमं
क्षमं च युक्तं च, निशाचरेश्वर ! ।। २५ ।।

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्तत्रिंशः सर्गः

 अथ मत्सचिवान्तर्गतस्य तवैव निश्चयः कीदृशः ? इत्यपेक्षा- यामाह - अहं त्वित्यादि । इदमिति वक्ष्यमाणम् । शठ (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणा मृतकतकटीकायां अरण्यकाण्डे सप्तत्रिंशः सर्गः

अष्टात्रिंशः सर्गः

[रामपराक्रमकथनम्]

तद्गुणजातं न युक्तथा कायित्वोच्यते, किं त्वनुभवसिद्धमित्याह [१]कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । 
बलं नागसहस्रस्य धारयन् पर्वतोपमः ॥ १ ॥
[२] नीलजीमूतसङ्काशः ततकाञ्चनकुण्डलः ।
भयं लोकस्य जनयन् किरीटी परिघायुधः ॥ २ ॥
व्यचरं [३]दण्डकारण्ये ऋषिमांसानि भक्षयन् ।

 अथ खानुभवसिद्धं रामबलं रावणं प्रति निवृत्तीच्छया मारीच: आह-कदाचिदित्यादि ॥ १-२ ॥


  1. कदाचिदित्यादिना-गो.
  2. भयजनने हेतुमाह -नीलेत्यादिना-गो.
  3. दण्डकारण्यंज.ज.