पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७ सर्ग:]
255
तस्मै शशंसे रामस्य धर्ममूर्ते: शुभान् गुणान्


न च धर्मगुणैहनि: [१] कैातल्या [२] sऽनन्दिवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ ९ ॥
वश्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।
करिष्यामीति धर्मात्मा, तात ! [३] प्रवाजितो वनम् ।। १० ।।
[४] कैकेय्याः प्रियंकामार्थ पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥

 एवं कामप्रवेदनव्याजेन महावीर्यत्वं प्रतिपाद्य, अथ – न च पित्रेत्यादिना गुणान्वितत्वस्य प्रपञ्चः कृतः । सत्यवादिनं करिष्यामीति वनं प्रवाजितः, न तु किञ्चित्पापात् पित्रा विवासित इत्यर्थः ॥८-११॥

न रामः कर्कशः, तात ! नाविद्वान् नाजितेन्द्रियः ।
[५]अनृतं {{bold|<poem>दुःश्रुतं- उ.

न श्रुतं चैव ‘नैवं त्वं वक्तुमर्हसि ॥ १२ ।।</poem>}}

 अनृतं न श्रुतं चैव-अनृतप्रसङ्गमपि न जानाति, तेन तत्कथनं दूरापास्तमित्यर्थः एवं वक्तमिति । दुर्गुणवन्तमित्यर्थः ॥ १२ ॥

रामो विग्रहवान् धर्मः ' साधुः सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ १३ ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तु प्रभामिव विवस्वतः ।। १४ ।।


  1. आनन्दिः - आनन्दः, 'सर्वधातुभ्य छन्'-गो.
  2. नन्ह-ज.
  3. प्रव्रजितो-ज.
  4. वनगमने हेत्वन्तरमाह-कैकेय्या इति - गो.
  5. अनृतं -असत्यं दुःश्रुतं — वैपरीत्येन श्रुतं च त्वं नाईसि-गो.