एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७ सर्ग:]
255
तस्मै शशंसे रामस्य धर्ममूर्ते: शुभान् गुणान्
एवं कामप्रवेदनव्याजेन महावीर्यत्वं प्रतिपाद्य, अथ – न च पित्रेत्यादिना गुणान्वितत्वस्य प्रपञ्चः कृतः । सत्यवादिनं करिष्यामीति वनं प्रवाजितः, न तु किञ्चित्पापात् पित्रा विवासित इत्यर्थः ॥८-११॥
न रामः कर्कशः, तात ! नाविद्वान् नाजितेन्द्रियः ।
[५]अनृतं {{bold|<poem>दुःश्रुतं- उ.
न श्रुतं चैव ‘नैवं त्वं वक्तुमर्हसि ॥ १२ ।।</poem>}}
अनृतं न श्रुतं चैव-अनृतप्रसङ्गमपि न जानाति, तेन तत्कथनं दूरापास्तमित्यर्थः एवं वक्तमिति । दुर्गुणवन्तमित्यर्थः ॥ १२ ॥
रामो विग्रहवान् धर्मः ' साधुः सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ १३ ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तु प्रभामिव विवस्वतः ।। १४ ।।