पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६ सर्ग:]
251
सौवर्णमृगतां प्राप्य रामं द्रोग्षुमचोदपत्

कर्णनासाऽपहरणात् भगिनी मे विरूपिता ।

 अथ भगिनीवैरूप्वं निष्कारणमकृतेति मन्यमानः क्रोधाद्दूष- यति - - पित्रा निरस्तः इत्यादि । अजितेन्द्रियः इति पदम् । "सत्त्वं-बलमेव केवलं आश्रितः, न तु घर्ममित्यर्थः ॥ १२ ॥

तस्य भार्या जनस्थानात् सीतां सुरसुतोषमाम् ॥ १३ ॥
[१]आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ।
त्वया ह्यहं सहायन पार्श्वस्थेन, महाबल ! ॥ १४ ।।
[२] भ्रातृभिश्च सुरान् युद्धे समग्रान् नाभिचिन्तये ।

 भ्रातृभिः - कुम्भ कर्णादिभिः । नाभि चिन्तये-न गणयामि इति अकुलाभिमाने ।। १४ ।।

तत् सहायो भव त्वं मे समर्थो ह्यसि, राक्षस ! ।। १५ ।।
वीर्ये दर्पे च युद्धे च न ह्यस्ति सदृशस्तव |
[३]उपायज्ञो महान् शूर: '
[४] सर्वमायाविशारदः ॥ १६ ॥
एतदर्थमहं प्राप्तः त्वत्समीपं, निशाचर ! ।
शणु तत् कर्म साहाय्ये यत् कार्य वचनान्मम ॥ १७ ॥

 शृण्वित्यादि । "मम साहाय्यायें यच्च कर्म त्वया कर्तव्यं तच्च कर्म शृणु ॥ १७ ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।। १८ ।।


  1. बलादानेष्यामीत्यर्थः ।
  2. भ्रातृमिश्च - सहायैरिति विपरिणामः
  3. उपायतो- ज.
  4. महामाया-ज.