पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकनवतितमः सर्गः

येन शक्रो महातेजा दानवानजयत् प्रभुः । पुरा दैवासुरे युद्धे वीर्यवान् हरिवाहनः ॥ ६९ तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् । शरश्रेष्ठं धनुःश्रेष्ठे नरश्रेष्ठोऽभिसंदधे ॥ ७० संघायामित्रदलनं विचकर्ष शरासनम् । सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा ॥ ७१ संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् । लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ ७२ धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि । पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् ॥ ७३ इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ७४ ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा । स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ॥ ७५ प्रमथ्येन्द्रजितः कायात् पातयामास भूतले । तद्राक्षसतनुजस्य च्छिन्नस्कन्धं शिरो महत् ॥ ७६ तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् । हतस्तु निपपाताशु धरण्यां रावणात्मजः ॥ ७७ कवची सशिरस्त्राणो विध्वस्तः सशरासनः । चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ॥ ७८ हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा । अथान्तरिक्षे देवानामृषीणां च महात्मनाम् ॥ अभिजज्ञे च संन्नादो गन्धर्वाप्सरसामपि । पतितं तमभिज्ञाय राक्षसी सा महाचमूः ॥ ८० वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः । वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः ॥ ८१ लङ्कामभिमुखाः सस्त्रुर्नष्टसंज्ञाः प्रधाविताः । दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः ॥ ८२ त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान् । केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः ॥ ८३ समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः । हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ ॥ ८४ राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत । यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः ॥ ८५ तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः । शान्तरश्मिरिवादित्यो निर्वाण इव पावकः ॥ ८६ स बभूव महातेजा व्यपास्तगतजीवितः । प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान् ॥ ८७ बभूव लोकः पतिते राक्षसेन्द्रसुते तदा । हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः ॥ ८८ जगाम निहते तस्मिन् राक्षसे पापकर्मणि । आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः ॥ नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः । ववृषुः पुष्पवर्षाणि तदद्भुतमभूत्तदा ॥ ९० प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि । शुद्धा आपो दिशश्चैव जहृषुर्दैत्यदानवाः ॥ ९१ आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे । ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः ॥ ९२ विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति । ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः ॥ तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुंगवम् । विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः ॥ ९४ विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् । क्ष्वेलन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ९५ लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे । लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः ॥ ९६ लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा । अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः ॥ ९७