पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
अष्टमः सर्गः
पुष्पकानुवर्णनम्
स तस्य मध्ये भवनस्य संस्थितं महद्विमानं बहुरत्नचित्रितम्।
प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः॥ १
तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा।
दिवं गतं वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्॥ २
न तत्र किंचिन्न कृतं प्रयत्नतो न तत्र किंचिन्न महार्हरत्नवत्।
न ते विशेषा नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ ३
तपःसमाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्।
अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्॥ ४
मनःसमाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम्।
महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम्॥ ५
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्।
मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा॥ ६
वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः।
निवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः॥ ७
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः॥ ८
इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
सुन्दरकाण्डे पुष्पकानुवर्णनं नाम अष्टमः सर्गः


नवमः सर्गः
संकुलान्तःपुरम्
तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्। ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः॥ १
अर्धयोजनविस्तीर्णमायतं योजनं हि तत्। भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्॥ २
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्। सर्वतः परिचक्राम हनुमानरिसूदनः॥ ३
उत्तमं राक्षसावासं हनुमानवलोकयन्। आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्॥ ४