पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशः सर्गः ४८१

त्रयस्त्रिंशः सर्गः तारासान्त्ववचनम् अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात् ।। द्वारस्था हरयस्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् । बभूवुर्हरयस्त्रस्ता न चैनं पर्यचारयन् ।। ३ स तां रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम् । रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ।। हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् । सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः । दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ।। चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् । मैरेयाणां मधूनां च संमोदितमहापथाम् ।। विन्ध्यमेरुगिरिप्रख्यैः प्रासादैरुपशोभिताम् । ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ।। अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च ।। विद्युन्मालेश्च संपातेः सूर्याक्शस्य हनूमतः । वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ।। १० कुमुदस्य सुपेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः । ११ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् । ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ।। १२ पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च । प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ।। १३ पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् । वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ।। शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः । सर्वकालफलैर्वृक्शैः पुष्पितैरुपशोभितम् ।। १५ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः । दिव्यपुष्पफलैर्वृक्शैः शीतच्छायैर्मनोहरैः॥ १६ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः । दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ।। सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः । अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ १८ स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः । प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत् ।। १५ हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः । महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ।। प्रविशन्नेव सततं शुश्राव मधुरस्वरम । तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् ।। बह्वीश्च विविधाकारा रूपयौवनगर्विताः । स्त्रियः सुग्रीवभवने ददर्श स महाबलः ।। दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः । वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ।।