पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमः सर्गः ४२७

उत्तरीय तया त्यक्तं शुभान्याभरणानि च । तान्यस्माभिहीतानि निहितानि च राघव ॥ ११
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि । तमब्रवीत्सतो रामः सुग्रीवं प्रियवादिनम् ।। १२
भानयस्व सखे शीघ्रं किमर्थ प्रविलम्बसे । एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।। १३
प्रविवेश ततः शीघ्र राघवप्रियकाम्यया । उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।।
इदं पश्येति रामाय दर्शयामास वानरः । ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।
अभवद्वाप्पसंरुद्धो नीहारेणेव चन्द्रमाः । सीतारनेहप्रवृत्तेन स तु बाष्पेण दूषितः । १६
हा प्रियेति रुदन् धैर्यमुग्मृज्य न्यपतन् क्षितौ । हदि कृत्वा तु बहुशस्तमलंकारमुनमम् ।।
निशश्वास भृशं सो बिलस्थ इव रोषितः । अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्थतः ॥ १८
परिदेवयितुं दीनं रामः समुपचक्रमे । पश्य लक्ष्मण वैदेह्या सत्यक्तं द्वियमाणया ।। १९
उत्तरीयमिदं भूमौ शरीरादभूषणानि च । शालिन्यां ध्रुवं भूम्यां सीतया नियमाणया ॥
उत्सृष्टं भूपणमिद तथारूपं हि दृश्यते । एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।।
नाई जानामि केयूरे नाहं जानामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२
सतः स राघवो दीनः सुग्रीवमिदमब्रवीत् । बेहि सुग्रीव कं देशं द्वियन्नी लक्षिता त्वया । २३
रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया । क वा वसति तद्रक्षो महब्यसनदं मम ।।
यनिमित्तमहं सर्वान्नाशयिष्यामि राक्षसान । हरता मैथिली येन मां च रोषयता भृशम ।।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ।।
मम दयिततरा हता बनान्ताद्रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुं त्वमद्य वै प्लवगपते यमसंनिधि नयामि ।। २६

इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम किष्किन्धाकाण्डे भूपणप्रत्यभिज्ञानं नाम षष्ठः सर्गः सप्तमः सर्गः रामममाश्वासनम

एवमुक्तस्तु सुप्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्दः । १
न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्य विक्रमं वापि दौफुलेयस्य वा फुलम् ॥ २
सत्यं ते प्रतिजानामि त्यज शोकमरिंदम । काष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥३
रावण सगणं हत्वा परितोष्यात्मपौरुषम् । तथारिम कर्ता न घिराघथा प्रीतो भविष्यसि ।।
अलं वैछन्यमालम्ब्य धैर्यमात्मगतं स्मर । स्वद्विधानामसदृशमीशं विद्धि लाघवम् ॥