पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७६ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

उपोपविष्टस्तु तदा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ।।
किमेष वाक्यं भरतोऽध राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः ।
वृताः सुहृद्भिश्व विरेजुरध्वरे यथा सदस्यैः सहितात्रयोऽग्नयः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहनिकायां संहितायां अयोध्याकाण्डे मातृदर्शनं नाम त्र्यधिकशततमः सर्गः चतुरधिकशततमः सर्गः रामभरतसंवादः

तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।।
किमेतदिच्छेयमहं श्रोतुं प्रव्याहतं त्वया। यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।।
यन्निमित्तमिमं देशं कृष्णाजिनजटाधरैः। हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हमि ॥
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥
आर्य सातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्ग महाबाहो पुत्रशोकाभिपीडितः ।।
लिया नियुक्तः कैकेय्या मम मात्रा परंतप । चकार सुमहन् पापमिदमात्मयशोहरम ।।
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोर निरये जननी मम ।।
वासभूतस्य प्रसादं कर्तुमर्हसि । अभिषिञ्चस्व चाद्यैव गज्येन मघवानिव ।।
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्रामाः प्रसादं कर्तुमर्हसि ।।
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान सुहृदः कुरु ।।
भवत्वविधवा भूमिः सममा पतिना त्वया । शशिना विमलेनेवै शारदी रजनी यथा ॥
एभिश्च सचिवैः साध शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥
तदिदं शाश्वतं पित्र्यं सर्व प्रकृतिमण्डलम । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।।
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः । रामस्य शिरसा पादौ जग्राह विधिवत् पुनः ॥
तं मत्तमिव मातङ्ग निःश्वसन्तं पुनः पुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥
कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः। राज्यहेतोः कथं पापमाचरेन्मद्विधो जनः॥