पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता वाचकः, अन्वर्थतया वा? इत्येक प्रश्नः । यद्यपि रूढो शङ्कव नास्ति; तथापि अन्वर्थती लब्धामपि स्वरूपलक्षणनिमित्तनि- रूपणेन 2 स्फुटीकर्तुमेष प्रश्नः । स्थिरधीरिति शब्दपदार्थकः अर्थपदार्थकश्च । तत्व स्थिरधीशब्दः किं प्रयोगलक्षणमेवार्थ- माह, आहो तपस्विनमपि ? इति द्वितीयः प्रश्नः । स च स्थिर- धीर्योगी किमासीत किमभ्यसेत् क्वास्य स्थैयं स्यात् ? इति तृतीयः । अभ्यस्यंश्च' किमाप्नुयात् इति चतुर्थः । एतदेव प्रश्व- चतुष्टयं क्रमेण निर्णीयते भगवता ॥ ५६ ॥ श्रीभगवानुवाच - प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५७ ॥ प्रजहातीति । स्थिता रूढा प्रज्ञा यस्य । रूढिश्च नित्य- मात्मरूढित्वे सति विषयविक्षेपकृतस्य कामरूपस्य 7 भ्रमस्य निवृत्तत्वात् योगिनो यः स्थितप्रज्ञशब्दः अन्वर्थः, स च ' इत्थं युक्तः इत्येकः प्रश्नो निर्णीतः ॥ ५७ ॥ 1. Somits वा 2. B, N -तरूपेण S प्रस्फुटी- B,N omit च, तत्र 3. 4. 5. N अभ्यसंव 6. S इति प्रश्नचतुष्टयम् अज्ञा (र्जु? ) नेन कृतं क्रमेण निर्णीयते श्रीभगवता 7. Nomits कामरूपस्य 8. Nomits इत्थं