पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Th अष्टादशोऽध्यायः आचार्याभिनवगुप्तस्यातिसंक्षिप्तलेखिनः तथापि तत्कृपावेशाद्यत्कचिल्लिखितं मया ॥ २ ॥ श्रीमच्छङ्करनारायणाख्येन गुरुभक्तितः । तेन संप्रीयतां कृष्णो वासुदेवः शिवायः ॥ ३ ॥ कृष्णेन वासुदेवेन पुरा गीता रणांगणे । पार्थायानुगृहीता तां महामाहेश्वराग्रणीः ॥ ४ ॥ 293 आचार्योऽभिनवो गुप्तो व्याचख्यावतिगूढवाक् | तत्प्रसादाच्च तां व्याख्यां गीतार्थसंग्रहभिधाम् ॥ ५ ॥ गुप्तार्थाभिनवां प्रत्नां शिवासतिशुभोदयाम् । अविस्तृतामगाधां च प्रकटीकृत्य यत्नतः ॥ ६ ॥ टिप्पण्याङ्गलभाषायामनुवादादिना सह । श्रीमच्छङ्करनारायणाययोऽर्पयति सम्मुवे । सच्चिदान दानन्दमूर्त्याख्यसूरिणा चोदितः स्वयम् ॥ ७ ॥ योऽध्येता यजुषां महागुरुवरश्रीश्रीनिवासात् पितुः सच्छास्त्रे शिवरामकृष्णकृतिना यः शिक्षितः सादरम् । सोऽयं शङ्करपूर्वको रचितवान्नारायणष्टिप्पणीं सुब्रह्मण्यबुधेन्द्रबोधितनयः श्रीकृष्णसन्तुष्टये ॥ ८ ॥ चन्द्राभ्रशक्तिभूसंख्ये (१९०१) शाके सिद्धार्थवत्सरे । चैत्रे कृष्णाष्टमीयुक्ते शुक्रे भे वैश्वदेविके ॥ ९ ॥ मेषलग्ने गता पूर्ति टीकादि: सुमिताक्षरा। जीयात् सद्विविदुषां तुष्टयै यावच्चन्द्रदिवाकरम् ॥ १०॥