पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता मात्रनिष्ठत्वादित्येव विवक्षितमाचार्येण (अकारो लेखकप्रमा- दादागत: ? ) । एवं च बोधमावस्य जानातीच्छति करोतीति रीत्या कर्मणि प्रथमप्रवर्तकतया कर्मचोदनेति मूलेन संगतिः । तेषामेवेत्यस्य स्वीकरणम्, अभिधेयत्वम्, तथा आविष्ट- त्वात् इत्येतैर्व्यवहितैः संबन्धः । सम्यग्ग्रहणरूपमिति, कर्मणी- त्यादिः । तथाच कर्मसंग्रहः इति मूलस्य कर्मणि संग्रह इत सप्तमीसमास इति बोध्यम् ॥ श्लो. १९ (व्या) यत् करणमित्यादि । यत् द्विविधं करणं तदुक्तमिति संबन्धः ॥ ज्ञानकरणसामान्यस्येति - ज्ञप्ति- श्लो. २०-२२ (अ) करणानां क्रियाकरणानां च यत् सामान्यं तस्येत्यर्थः । कर्मणो ज्ञेयकार्यरूपस्येत्यादि । अवेदं विवक्षितमिव 'कर्मणो ज्ञेयकार्यरूपेण द्विविधस्य त्रैविध्यम् - कर्तुः ज्ञातृ- करणविशेषस्य कर्तृरूपेण द्विरूपस्य संक्षेपेण त्रिविधं स्वरूपम्; द्विविधस्य त्रिविधस्वरूपभेदप्रतिपादनार्थम्' इत्यादि । अतो न काप्यनुपपत्तिः । अस्मिंश्च वाक्ये कर्मण इति धात्वर्थ- फलशालिन इत्यर्थः । ज्ञेयकार्यरूपेण ज्ञानविषयत्वक्रियानिर्व- त्र्त्यत्वाभ्याम् । ज्ञातृकर्तृरूपेण - ज्ञातृत्वरूपेण क्रियानिर्वर्तने स्वातन्त्र्यरूपेण च । त्रिविधेति स्थलद्वयेऽपि प्रत्येकमित्यादिः । - - -