पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

284 इत्याह । श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता फलांशे इत्यादि । श्लोकवार्तिके दृश्यमानपाठस्तु- 'फलांशे भावनायाश्च प्रत्ययो न विधायकः ।' इति । 'प्रत्ययोऽनुविधायक' इति पाठस्य यदि साधुत्वमिष्टम्, तदा लिङादिः प्रत्यय: रागतः प्राप्तस्यैव फलस्य अनु पश्चात् विधायक: अनुवादक इति यावत्, इति कथंचिन्नेयम् । विद्वांस इति एवम्, पण्डिता इति मन्यन्ते इति । अर्थात् 'न त्यजेत्' इत्येवं मन्यन्ते इत्यर्थः ।। श्लो. ४-११ (व्या) वैचित्यादिति पञ्चम्यर्थस्य प्रयो- ज्यत्वस्य षष्ठ्यन्तत्यागपदार्थे, चित्तवृत्त्येति तृतीयार्थहेतुत्वस्य क्रियमाणस्येति धात्वर्थक्रियायाम्, क्रियमाणस्येत्यस्यापि सामा- नाधिकरण्येन षष्ठ्यन्तत्यागपदार्थे च अन्वयः । वस्तुगत्या अन्यप्रभावारूषितयथावस्थितपदार्थस्व- रूपेण । तृतीयार्थः अभेदः अव्यवहितोत्तरश्रूयमाणत्यागपदा- र्थेकदेशे त्यागत्वेऽन्वेति । समतया - समत्वबुद्धया; सहार्थयोगे तृतीया । परिहारेणेति तृतीयार्थः प्रयोज्यत्वं फलप्रेप्साविरहेड- न्वेति । विरहेणेति तृतीयापि सहार्थयोगे । षष्ठ्यर्थ: सात्त्विकस्येति । सात्त्विकपुरुषस्येत्यर्थः । कर्तृत्वं त्यागेऽन्वेति । त्यागादिति पञ्चम्यर्थ प्रयोज्यत्वस्य फल- पदार्थेऽन्वयः ।