सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

232 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता एव स्वातन्त्र्यमिति विश्वकर्तृत्वमुक्तम् । अन्ये तु अपोहनम् 'अनेन अकृतेन ' इदं भवति' इति व्यतिरेकबुद्धिः । 'वेदान्तं करोति' इत्यात्मसाद्भावेन' | एवं ' 'वेदम्' ।। १५ ।। 3 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। १७ ।। यस्मात् क्षरमतीतोऽहमतीतोऽक्षरमेव च (?) । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥ द्वावित्यादि पुरुषोत्तम इत्यन्तम् । 'द्वाविमौ पुरुषौ' इति ग्रन्थेनेदमुच्यते - लोके तावदप्रबुद्धस्वभावोऽपि सर्वः पृथिव्यादि- भूतारब्धशरीरम् आत्मानं चेतनं क्षररूपं जानाति इति लोकस्य मूढत्वात् द्वैतधीर्न निवर्तते । अहं तु सकलानुग्राही द्वैतग्रन्थि विभिद्य सकललोकव्यापकतया वेद्य इति । क्षरमतीतः, भूता- नां जडत्वात् । अक्षरमतीतः, आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्व- खण्डनात् । पुरुषोत्तमो लोके वेदेऽपि सः उत्तमः पुरुष: ' इत्या- दिभिर्वाक्यैः स एव परमात्मा अद्वयः एवमुच्यते ।। १६-१८ ।। यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥ 1. S, B, N अन्येनाकृतेनेदं 2. 3. B,N सद्भावेन N एवं