पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोsध्याय: 209 य एवमिति । एवम् अनेन सर्वाभेदरूपेण ब्रह्मदर्शनेन यो योगी प्रकृतिं पुरुषं गुणांश्च तद्विकारान् जानाति, सर्वेण प्रकारेण यथा तथा वर्तमानोऽपि स! मुक्त एवेत्यर्थः ।। २३ ।। ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥ ध्यानेनेति । अन्य इति । ईदृशं च ज्ञानं प्रधानम् । कैश्चित् [आत्मा] आत्मतया उपास्यते; अन्यैः प्रागुक्तेन सां- खवनयेन; अपरैः कर्मणा; इतरैरपि स्वयमीदृशं 2 ज्ञानमजाव- द्भिरपि श्रवणप्रवणैः यथाश्रुतमेवोपास्यते । तेऽपि मृत्युं संपारं तरन्ति । येन केनचिदुपायेव भगवत्तत्त्वमुपास्यमानमुत्तारयति । अत. सर्वथा एवमासीतेत्युक्तम् ॥ २४-२५ ॥ यावत्किचित्संभवति सत्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञ संयोगि (१) तद्विद्धि भरतर्षभ ॥ २६ ॥ यावदिति । यत्किंचित् चरम् अचरं च तत् सर्वं क्षेत्रज्ञा. तिरेकि व संभवतीति ।। २६ ।। समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। २७ ।। 1. S,B omit : 2. B,N ईदृग् गोता. 14