पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

180 मत संग्रहश्लोक:- श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता M- इच्छायामिन्द्रिये वाऽपि यदेवायाति गोचरम् । हाद्विलापयंस्तत्तत् प्रथान्तं ब्रह्म भावयेत् ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे दशमोऽध्यायः ॥ ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी | श्लो. १-५ (व्या) उत्साह इति । उत्साहयति प्रोत्साह- पति इत्युत्साहः संमोहविरोधी असंमोहः । श्लो. ९ (मू) रमन्ति इति परस्मैपदं छान्दसम् || श्लो. २८ (मू) प्रजन इति । प्रपूर्वकात् जनी प्रदुर्भाव इति धातोः अन्तर्भावितण्यर्थात् कर्तरि क्विपि, ङसि रूपं प्रजन इति । जातावैकवचनम् । प्रजनयितृणामित्यर्थः । रामकण्ठोऽप्याह 'प्रजनः प्रजनन क्रियाकर्ता, तस्य; जातावेकवचनम्' इति । 'प्रज- वस्यास्मि' 'प्रजनेष्वपि' इत्यपि पाठावुपलभ्येते मातृकासु ॥ श्लो. २९ (मू) संयमतामिति । 'छान्दसो यच्छादेशाभावः । केचिन्निपुणाः संयच्छतामिति पठन्ति' इति रामकण्ठः ।। श्लो. ४२ (मू) ज्ञानेनेति रामकण्ठपाठ: समावृतः । ज्ञायते अनेनेति ज्ञानम् उपदेशः, तेनेत्यर्थः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्यां दशमोऽध्यायः ॥ 1. S,B, N ब्रह्महा भवेत् । Probably प्रशान्तब्रह्मभाग्भवेत् is intended.