168 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अवेदं तत्त्वम् यः परमेश्वरो जगत्पतिः, तस्य परो- | मुख्यत्यागेत स्वात्मविश्रान्तिरूपत्वेन या स्फुरत्ता महासत्ता सेव आनन्द इति, भगवतश्चिदात्मतयैव सत्तादिरूपता । पशोस्तु सत्ता तदभावश्च, आवन्दश्च तदभावश्च; तस्य संकुचितरूपत्वात् । अतः अयं द्वयात्मा इति । अधिकं तु तत्त्वसंग्रहाधिकारे 'सत्ता. नन्दः क्रिया पत्थुस्तदभावोऽपि सा पशोः' इति प्रत्यभिज्ञाका- रिकाविमशिन्यां द्रष्टव्यमिति । प्रकृते च 'उपक्रमे' इत्यादिपद्ये अभिन्न समपादो नाम पादाभ्यासात्मकः शब्दालङ्कारः । उक्तं व तल्लक्षणं काव्य- प्रकाशे 'अर्थ सत्यर्थभिन्नानां वर्णावां सा पुनः श्रुतिः' इति (IX. 117) । विस्तरस्तु तद्वयाख्यानेषु द्रष्टव्यः ॥ श्लो. २१-२२ (व्या) मितं कर्मेति । अव कर्म इति द्विती यान्तं पदम् । द्वितीयार्थश्च कर्मत्वम् अवपूर्वकच्छिदधात्वर्थे अव- च्छेदे अन्वेति । मितं प्रमितं, प्रमाणतो विदितं स्वर्गमात्र प्रार्थनया | तादृशप्रार्थनया प्रमितत्वमेव कर्मणोऽवच्छेदने हेतुरिति भावः । अथवा मितं परिमितमित्यर्थः । अथवा अमितमिति च्छेदः । इत्थं च स्वतः अमितमपि अनवच्छिन्नमपि निरवच्छिन्नावन्ता- नन्दब्रह्मप्रापकमपि कर्म यज्ञादिकं स्वर्गमात्र प्रार्थनया अवच्छि- न्दन्ति, परिच्छिन्न फलदायकं कामकामाः कुर्वन्तीति वाक्या न्वयः । स्वर्गतिं प्रार्थयन्ते इति मूलस्याभिप्राय प्रदर्शकं स्वर्गमात्र- प्रार्थनयेति । तस्योपव्याख्यानम् अमितं कर्म स्वर्गादिमात्रेणैव फलेनेति । अपरिमितस्य परिमितीकरणे हेतुः निजसत्त्व- दुर्बलता ॥
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२९
दिखावट