पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता अनाश्रितव्यापारत्वात् हेतुरिति । तदुक्तं 'हेती' इति सूबे (PA, III, iii, 23) कैयटे- 'योग्यतामात प्रयुक्तोऽनाश्रित व्यापारोऽयों हेतुः' - इति । .... अत्र योग्यता भ्रमप्रमासाधरणी बोध्या । इत्थं च प्रकृते गीता- श्लोके मयाध्यक्षेणेति हेतो तृतीया, हेतुनानेनेत्यस्य अनेव मदी- याध्यक्षत्वेन हेतुनेत्यर्थ इत्याचार्याभिप्रायः ॥ श्लो. १३ (मू) चैवेति । वा अपि इत्यर्थः ॥ श्लो. १६ (मू) ज्ञानेत्यादि । ज्ञानयज्ञेनेत्यस्य नित्य- युक्ता उपासते इति पूर्वसनेनान्वयः । तथा चात्रायमर्थः - महा- त्मानः ज्ञानयज्ञेन साधनेन मामेकत्वेन बद्वैतभावनया उपासते । अन्ये चापि लौकिकीं श्रौतदृष्टिमाश्रिताः बहुधा बहुप्रकारेण कर्मयोगात् कर्मसंबन्धात् बाह्यद्रव्यसाध्यैः यजन्तः विश्वतोमुखं विश्वरूपं मामेव पृथक्त्वेन अनेकतया भेदभावनया उपासते इति ॥ श्लो. १७-२० (अ) कारकेत्यादि । कारकाणी कलापेषु व्याप्तो यो भेदः परस्पराभावः तद्भूयिष्ठमित्यर्थः ॥ पलो. १७ (म्) अहमेवाज्यमिति । अहमाज्यमपीत्यर्थः ॥ श्लो. १७-२० (व्या) एकस्यैवेत्यादि । स्वत एवैकस्य अद्वैतस्य ब्रह्मतत्त्वस्य निर्मागस्य निरंशस्य अखण्डस्य पुनरपि एकत्वमेव कर्म निर्वर्तयति, साधयति, तत्त्वविदः कृते निश्चाययति इत्यर्थः । एवं निर्वर्तने हेतुः परिकलितभेदवत्साघनाधीनतैव कर्मणः इति । उक्तं पूर्वसपि 'ब्रह्मार्पणं ब्रह्म हविः' इत्यादि ।