नवमोऽध्यायः 161) अपेक्ष्यो विधिः, अप्राप्तप्रापणरूपत्वात् । स्वात्मा तु परमेश्वरो व विधिपूर्वकः, विधिपरिप्रापितत्त्वाभावात् । न हि तदनुद्देशेन किञ्चित्प्रवर्तते । तेन विधिपरिप्रापितेन्द्रादिदेवतोद्देशेषु सर्वेषु स स्वात्मा विश्वावभासनस्वभावः तदुद्देश्यदेवतावभासभित्ति' स्था- नीयतयैव अहमहमिकया सततावभासमाव: स्रक्सूवकल्प: सततोद्दिष्टः इति युक्तिसिद्धमेतत्, 'मामेव यजन्ति अविधि- पूर्वकत्वात्' [इति]। मुख्यभूतमत्प्राप्तिफलस्य तान्प्रति कर्त- भिप्रायत्वं वास्ति, अपि तु परिमितदक्षिणास्थानी येन्द्रादिपद - मतप्राप्तव याजकवचरितार्थत्वमेषाम् इति प्रथयितुं परस्मै- पदम् । यदुक्तं मयैव- वेदान् वेद व वेद शाम्भवपदं दूयेत निवेदवान् स्वर्गार्थी यजमावतां प्रतिजहज्जातो यजन् याजकः । सर्वाः कर्मरसप्रवाहविसराः ' संवित्स्रवन्त्योऽखिलाः स्त्वामा (स्वात्मा) नन्द महाम्बुधि विदधते नाप्राप्य पूर्णां स्थितिम् ॥ इति एवं य उक्तक्रमेण वेत्ति तस्येन्द्रादिदेवतायागोऽपि परमेश्वरयाग इति ।। २४-२७ ।। यदपि अन्यत् कर्म, तदपि महेश्वरस्वात्मार्चनरूपं, तस्यैव सर्वतोद्देशात् इत्याह- 1. 2. 3. 4. 5. 6. www S, B, N - परिप्राप्यत्वाभावात् Somits सः B, N substitutes- भित्ति with .मिति- B– येन्द्रपदातिमात्र, N येन्द्रपदादि ; K (n) - इन्द्रादिपवमात्र - B, K (n) प्राप्तय एव; N प्राप्त एव K प्रसरा: पीता- 11
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२२
दिखावट