पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः ओमित्येकाक्षरं ब्रह्म व्याहरन मामनुस्मरन् । यः प्रयाति त्यजन्देहं मद्भावं याति स ध्रुवम् (?) । १३ ॥ अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥ सर्वद्वाराणीत्यादि योगिन इत्यन्तम् । द्वाराणि इन्द्रियाणि । हृदि इति -- अनेन विषयसंगाभाव उच्यते, न तु विष्ठास्थानाधि- ष्ठानम् । आत्मनः प्राणम् आत्मसारथिम् इच्छाशक्त्यात्मनि मूहिर्न सकलतत्त्वातीत धारयन् इति कार्यालयमः । ओमिति जपन् इति वानियमः । मामनुस्मरनिति चेतसोऽनन्यगामिता | यः प्रयाति - दिवाद्दिनम् अपुनरावृत्तये गच्छति । तथा च देहं त्यजन् 'कथं मे' पुनरिदं सकलापत्स्थानं शरीरं मा भूयात्' इत्येवं यो मामनन्यचेताः स्मरति सततमेव, याति, जानाति, समद्- भावम् मत्स्वरूपम् । न त्वव मुनेः परब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ' भरः । तथाचोक्तम्- 139 व्यापिन्यां शिवसत्तायाम् उत्क्रान्तिर्नाम निष्फला । अव्यापिति शिवे नाम नोत्क्रान्तिः शिवदायिनी ॥ इति S चेतसाऽनन्यगामिता N दिनंदिनं 1. 2. 3. S,B,N omit मे 4. S omits जानाति 5. N नन्वन 6. B तत् कान्तौ; K (n) विरोधीति उत्कान्तौ भरः