सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यो मामिति । प्रणाशः, अकार्यकारित्वात् । तथाहि- परमात्मनः सर्वगतं रूपं यो न पश्यति तस्य परमात्मा पला- यितः स्वरूपप्रकटीकाराभावात् । यच्चेदं वस्तुजातं [तत्] तद्भासनात्मनि परमात्मनि निविष्टं भाति; तथाविधं यो न पश्यति स परमात्मस्वरूपात् प्रणष्टः, तद्व्यतिरेके सति अति- भसनात् । यस्तु सर्वंगतं मां पश्यति तस्याहं न प्रणष्टः, स्व- रूपेण भासनात् । भावांश्च मयि पश्यति तत् तेषां भासनोप- पत्तो द्रष्टृतायां परिपूर्णायां, स न प्रणष्टः परमात्मनः ॥ ३१ ॥ 108 सर्वभूतस्थितं यो मां भजत्येकत्व मास्थितः । सर्वथा वर्तमानोऽपि स योगी नैव लिप्यते (१) ॥ ३२ ॥ सर्वेति । यस्त्वेवं ज्ञानाविष्ट: सोऽवश्यमेव एकतया भगवन्तं सर्वगतं विदन् सर्वावस्थागतोऽपि न लिप्यते ॥ ३२ ॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३३ ॥ आत्मौपम्येनेति । सर्वस्य च सुखदुःखे आत्मतुल्यतया पश्यतीति स्वरूपमेतदनूदितम् न पुनरेषोऽपूर्वो विधिः ॥ ३३ ॥ अर्जुन उवाच- योऽयं योगस्त्वया प्रोक्तः साम्येन मधुमूदन । एतस्याहं न पश्यामि चञ्चलचात् स्थितिं पराम् ॥ ३४ ॥ 1. 2. N यश्चेदम् 3. B omits परमात्मनि 4. S, K विनिविष्णुं भाति (K भवति) 5. B,N ज्ञान बिष्टोऽसाववश्यमेव; S- S - कारकत्वात् वश्य मे कतया