षष्ठोऽध्यायः 101 D आरुरुक्षोरिति - मुनेः, ज्ञानवतः; कर्म, करणीयम्; कारणं प्रापकम् । शमः प्राप्तभू मावुपरम: । कारणमत लक्षणम् ॥ ३ ॥ एष एवार्थः प्रकाश्यते- यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥ पदेति । इन्द्रियार्थाः विषयाः; तदर्थानि च कर्माणि वि षयार्जवादीनि ॥ ४ ॥ अस्यां च बुद्धो अवश्यमेवावधेयमित्याह- उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अजितात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥ उद्धरेदिति । बन्धुरिति । अत च नान्य उपायः, अपि तु आत्मैव, मन एवेत्यर्थः । जितं हि मनो मितं घोरतरसंसारो- द्धरणं करोति; अजितं तु तीव्रनिरयपातनात् शत्रुत्वं कुरुते ॥ ५-६ तत्र जितमनस इदं रूपम्- जितात्मनः प्रशान्तस्य परात्मसु समा मतिः । शीतोष्णसुख दुःखेषु तथा मानावमानयोः ॥ ७ ॥ जितेति । प्रशान्तो निरहंकारः । परेषु आत्मनि च शीतोष्णादिषु च अभेदधीः, न रागद्वेषौ ॥ ७ ॥ 1. N,Kधूमावनुपरमः
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६२
दिखावट