पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमोऽध्यायः 95 भोक्तारमिति | यज्ञफलेषु भोक्ता त्यक्तफलत्वात् । एवं तपस्सु । ईदृशं भगवत्तत्त्वं विदन् यथातथावस्थितोऽपि मुच्यते इति ॥ २८ ॥ || शिवम् || अनायं संग्रहश्लोक:- सर्वाण्येवात भूतानि समत्वेनानुपश्यतः । उजडवद्व्यवहारोऽपि मोक्षायैवावकल्पते ॥ ॥ इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपाद विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चमोऽध्यायः ।। ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ६ (व्या) संन्यासमाप्तुं दुःखमेवेति । अत्रेदं विचा- र्यते - संन्यासस्त्विति प्रथमान्तसंन्यासपदक एव सार्वत्रिको मूल- पाठ: । परन्तु संन्यासमाप्तुमिति विलिखता आचार्येण अप नाम द्वितीयार्थे प्रथमा छान्दसी इति सूचितम् १ अथ स्याद्वा आचार्यसमादृतो मूलपाठ: 'संन्यासं तु महाबाहो' इत्येव? स्याद्वा संन्यास आप्तुं दुःखमेवेत्येव लिलेखिषितमाचार्येण, यश्च मार्गो व्याख्यावन्तराणामपि बहूनाम् ? सर्वत्रापि पक्षे श्रीभास्करा- चार्योपदर्शितः संन्यासपदस्य यथाश्रुतार्थकत्वे प्रथमान्तत्वस्य 1. 2. 3. B, N, K (n) भोक्तात्यन्तफलत्वात् S यथा तथा विमुच्यते K (n) जनवत्