पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

84 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता प्रतिपादितं भवति । तथा अग्नेः, हविषः, यजमावस्य च ब्रह्मत्वं प्रतिपाद्यते । यथाह भगवान् कालिदास:- या सृष्टि: स्रष्टुराद्या वहति विधिहुतं या हविर्या च होती इति । ब्रह्मणेति तृतीयायाः कर्तृत्वमर्थः । ब्रह्मकर्मसमाधिनेति कर्म- धारयः इति बोध्यम् । आङ्गलभाषानुवादे किंचिदिवार्थभेदो वर्णितः ॥ श्लो २५ (व्या) कर्तव्यमित्येव बुद्धथेति । तथा च मूले यज्ञेनेत्यस्य यज्ञत्वेनेत्यर्थः; यज्ञत्वबुद्धया, अवश्य कर्तव्य बुद्धयेति यावत् ॥ श्लो २७-२८ (व्या) ते चेति । 'अपये च' इति भाव्यं, मूलानुसारात् । अथवा न परे अपये इति मूलार्थविवक्षया च अपरे इति मूलस्य व्याख्या ते च इति ते एवेत्यर्थः । भावेऽत्यक्ते इत्यादि । अन प्रकरणे अस्य पद्यस्यायमर्थ आचार्याभिमत इव भाति अत्यक्ते स्वानन्यत्वेन गृहीते, भावे विषये, विरुद्धा ऐकाग्र्यं प्रापिता, चित्, भावान्तरं विष- यान्तरं, नेव व्रजेत् यदा, तदा सा भावना चित्, तन्मध्यभावेन, तद्विषयान्तः संलीनचिदात्मना (अभेदे तृतीया), अति विकसति नितरां प्रफुल्ला भवति उक्तरीत्या 'व भोग्यं व्यतिरिक्तं हि भोक्तुः' इति प्रत्यभिजानाति इति । अधिकमन्यत | - श्लो. २९-३० (व्या) प्रकर्षम् अनिति इति प्राणशब्द- ●युत्पत्ते राह - उदयमानमिति । उत्पूर्वकात् अयधातोः शावच् ।