पृष्ठम्:श्रीमद्भगवद्गीता.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
[अ०२लो ०६३ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता–


क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ॥
स्मृतिभ्रंशाद्बुद्धिनाशो बुध्धिनाशात्प्रणश्यति ॥ ६३ ॥

 निगृहीतबाह्येन्द्रियस्यापि शब्दादीन्विषयान्ध्यायतो मनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुखहेतव एत इत्येवंशोभनाध्यासलक्षणः प्रीतिविशेष उपजायते सङ्गात्सुखहेतुत्वज्ञानलक्षणात्संजायते कामो ममैते भवन्त्विति तृष्णाविशेषः । तस्मात्कामात्कृतश्चित्प्रतिहन्यमानात्तत्प्रतिघातकविषयः क्रोधोऽभिज्वल- नात्माऽभिजायते । क्रोधाद्भवति संमोहः कार्याकार्यविवेकामावरूपः । संमोहत्स्मृतिविभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसंधानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच्च स्मृतिभ्रंशाबुद्धेरैकात्म्याकारमनोवृत्तेर्नाशो विपरीतभावनोपचयदोषेण प्रतिबन्धादनुत्पत्तिरुत्पन्नायाश्च फलायोग्यत्वेन विलयः । बुद्धिनाशात्प्रणश्यति तस्याश्च फलभूताया बुद्धेर्विलोपात्प्रणश्यति सर्वपुरुषार्थायोग्य भवति । यो हि पुरुषार्थीयोग्य जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्युक्तम् । यस्मादेवं मनसो निग्रहाभावे निगृहीतबाह्येन्द्रियस्यापि परमानर्थप्राप्तिस्तस्मान्महता प्रयत्नेन मनो निगृह्णीयादित्यभिप्रायः । अतो युक्तमुक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥ ६२ ॥ ६३ ॥

 श्री० टी०--बाह्येन्द्रियसंयमाभावे दोषमुक्त्वा मनःसंयमाभावे दोषमाह ध्यायत इति द्वाभ्याम्-गुणबुध्ध्या विषयान्ध्यायतः पुरुषस्य तेषु सङ्ग आसक्तिर्भवति । आसक्त्या च तेष्वधिकः कामो भवति । कामाच्च केनचित्प्रतिहतात्क्रोधो भवति ॥ ६२॥

 श्री० टी०--किं च-क्रोधादिति । क्रोधात्संमोहः कायाँकार्यविवेकाभावः । ततः शास्त्राचार्योपदिष्टार्थस्मृतेर्विभ्रमो विचलनं विभ्रंशः । ततो बुद्धेश्चेतनाया विनाशो वृक्षादिष्विवाभिभवः । ततः प्रणश्यति मृततुल्यो भवति ॥ ६३ ॥

 म० टी०–मनसि निगृहीते तु बाह्यन्द्रियनिग्रहाभावेऽपि न दोष इति वदन्किं व्रजेतेयस्योत्तरमाहाष्टभिः--

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

 योऽसमाहितचेताः स बाह्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांश्चिन्तयन्पुरुषार्थाद्रुष्टों भवति । विधेयात्मा तु तुशब्दः पूर्वस्माव्द्यतिरेकार्थः । वशीकृतान्तःकरणस्तु आत्मवश्यैर्मनोधीनैः स्वाधीनैरिति वा रागद्वेषाभ्यां वियुक्तैर्विरहितैरिन्द्रियैः श्रोत्रादिभिर्विषयाञ्शब्दादीननिषिद्धांश्चरनुपलभमानः प्रसादं प्रसन्नतां चित्तस्य स्वच्छता परमात्मसाक्षात्कारयोग्यतामधिगच्छति । रागद्वेषप्रयुक्तानीन्द्रियाणि दोषहेतुतां प्रतिपद्यन्ते । मनसि स्ववशे तु न रागद्वेषौ । तयोरभावे च न तदधीने-