कर्मासक्तिर्हि बन्धहेतुः । सा चाऽऽप्तकामत्वान्मम नास्ति । अत उदासीनवर्तमानस्य मे बन्धं नाऽऽपादयन्ति । उदासीनत्वे कर्तृत्वानुपपत्तेः कर्तृत्वे चोदासीनत्वानुपपत्तेरुदासीनवस्थितमित्युक्तम् ॥ ९॥
म०टी०-भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च परस्परविरुद्धमितिशङ्कापरिहारार्थं पुनर्मायामयत्वमेव प्रकटयति-
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥ |
मया सर्वतोदृशिमात्रस्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस्त्रिगुणात्मिका सत्त्वासत्त्वादिभिरनिर्वाच्या माया सूयत उत्पादयति सचराचरं जगन्मायाविनाऽधिष्ठितेव माया कल्पितगजतुरगादिकम् । न त्वहं सकार्यमायामासनमन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय जगत्सचराचरं विपरिवर्तते विविधं परिवर्तते जन्मादिविनाशान्तं विकारजातमनवरतमासादयतीत्यर्थः । अतो भासकत्वमात्रेण व्यापारेण विसृजामीत्युक्तं तावता चाऽऽदित्यादेरिव कर्तृत्वाभावादुदासीनवदासीनमित्युक्तमिति न विरोधः । तदुक्तम्-
“ अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । |
श्रुतिस्मृतिवादाश्चात्रार्थे सहस्रश उदाहार्याः ॥ १० ॥
श्री० टी०-तदेवोपपादयति-मयेति । मयाऽध्यक्षेणाधिष्ठात्रा निमित्तभूतेन प्रकृतिः सचराचरं विश्वं सूयते जनयति । अनेन मदधिष्ठानेन हेतुनेदं जगद्विपरिवर्तते पुनः पुनर्जायते । संनिधिमात्रेणाधिष्ठातृत्वात्कर्तृत्वमुदासीनत्वं चाविरुद्धमिति भावः॥१०॥
म०टी०-एवं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वजन्तूनामात्मानमानन्दघनमनन्तमपि सन्तम्-
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ॥ |
अवजानन्ति मां साक्षादीश्वरोऽयमिति नाऽऽद्रियन्ते निन्दन्ति वा मूढा अविवेकिनो जनाः । तेषामवज्ञाहेतुं भ्रमं सूचयति मानुषीं तनुमाश्रितं, मनुष्यतया प्रतीयमानां मूर्तिमात्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत् । ततश्च मनुष्योऽयमिति भ्रान्त्याऽऽच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पारमार्थिकं तत्त्वं सर्वभूतानां महान्तमीश्वरमजानन्तो यन्नाऽऽद्रियन्ते निन्दन्ति वा तदनुरूपमेव मूढत्वस्य ॥ ११॥