पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो० २९]
१५१
श्रीमद्भगवद्गीता।


भौमा महाव्रतम् " इति । ये पूर्वमहिंसाद्याः पञ्च यमा उक्तास्त एव जात्याद्यनवच्छेदेन दृढभूमयो महाव्रतशब्दवाच्याः । तत्राहिंसा जात्यवच्छिन्ना यथा मृगयोर्मृगातिरिक्तान्न हनिष्यामीति । देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालावच्छिन्ना यथा न चतुर्दश्यां न पुण्येऽहनीति । सैव प्रयोजनविशेषरूपसमयावच्छिन्ना यथा क्षत्रियस्य देवब्राह्मणप्रयोजनव्यतिरेकेण न हनिष्यामि युद्धं विना न हनिष्यामीति च। एवं विवाहादिप्रयोजनव्यतिरेकेणानृतं न वदिष्यामीति एवमापत्कालव्यतिरेकेणेक्षुद्धयाद्यतिरिक्तस्तेयं न करिष्यामीति एवमृतुव्यतिरिक्तकाले पत्नीं न गमिष्यामीति एवं गुर्वादिप्रयोजनमन्तरेण न परिग्रहीष्यामीति यथायोग्यमवच्छेदो द्रष्टव्यः । एतादृगवच्छेदपरिहारेण यदा सर्वजातिसर्वदेशसर्वकालसर्वप्रयोजनेषु भवाः सार्वभौमा अहिंसादयो भवन्ति महता प्रयत्नेन परिपाल्यमानत्वात् , तदा. ते महाव्रतशब्देनोच्यन्ते । एवं काष्ठमौनादिव्रतमपि द्रष्टव्यम् । एतादृशव्रतदार्ढ्ये च कामक्रोधलोभमोहानां चतुर्णामपि नरकद्वारभूतानां निवृत्तिः । तत्राहिंसया क्षमया क्रोधस्य, ब्रह्मचर्येण वस्तुविचारेण कामस्य, अस्तेयापरिग्रहरूपेण संतोषेण लोभस्य, सत्येन यथार्थज्ञानरूपेण विवेकेन मोहस्य, तन्मूलानां च सर्वेषां निवृत्तिरिति द्रष्टव्यम् । इतराणि च फलानि सकामानां योगशास्त्रे कथितानि ॥ २८ ॥

 श्री० टी०-किं च-द्रव्येति । द्रव्यदानमेव यज्ञो येषां ते द्रव्ययज्ञाः । कृच्छ्रचान्द्रायणादि तप एव यज्ञो येषां ते तपोयज्ञाः । योगश्चित्तवृत्तिनिरोधलक्षणः समाधिः स एव यज्ञो येषां ते योगयज्ञाः । स्वाध्यायेन वे[१]देन श्रवणमननादिना [२]यत्तदर्थज्ञानं[३] स एव यज्ञो येषां ते । अथवा वेदपाठयज्ञास्तदर्थज्ञानयज्ञाश्चेति द्विविधाः । यतयः प्रयत्नशीलाः सम्यक्शितं निशितं तीक्ष्णीकृतं व्रतं येषां ते ॥ २८ ॥

 म०टी०-प्राणायामयज्ञमाह सार्धेन-

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ॥
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ॥ २९ ॥

 अपानेऽपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणवृत्ति बाह्यवायोः शरीराभ्यन्तरप्रवेशेन पूरकाख्यं प्राणायाम कुर्वन्तीत्यर्थः । प्राणेऽपानं तथाऽपरे जुह्वति शारीरवायोर्बहिर्निर्गमनेन रेचकाख्यं प्राणायाम कुर्वन्तीत्यर्थः । पूरकरेचककथनेन च तदविनामूतो द्विविधः कुम्भकोऽपि कथित एव । यथाशक्ति वायुमापूर्यानन्तरं श्वासप्रश्वासनिरोधः क्रियमाणोऽन्तःकुम्भकः । यथाशक्ति सर्व वायुं विरिच्यानन्तरं क्रियमाणो बहिष्कु-


  1. झ. वेदन' ।
  2. झ. यई।
  3. क.नं तदेव ।