पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[अ०क्ष्लो०१८ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---


न गृह्णाति" इत्यादावपि संकल्पविशेषस्यैवापूर्वजनकत्वाभ्युपगमात् , “नेक्षेतोद्यन्तमादित्यम्" इत्यादिप्रजापतिव्रतवत् । अतो नित्यकर्मानुष्ठानार्हे काले तद्विरुद्धतया यदुपवेशनादि कर्म तदेव नित्यकर्माकरणोपलक्षितं प्रत्यवायहेतुरिति वैदिकानां सिद्धान्तः । अत एवाकुर्वन्विहितं कर्मेत्यत्र लक्षणार्थे शता व्याख्यातः । “लक्षणहेत्वोः क्रियायाः" इत्यविशेषस्मरणेऽप्यत्र हेतुत्वानुपपत्तेः । तस्मान्मिथ्यादर्शनापनोदे प्रस्तुते मिथ्यादर्शनव्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठानपरमेवैतद्वाक्यं, नित्यानि कुर्यादित्यर्थे कर्मण्यकर्म यः पश्येदित्यादि तदबोधकं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेरित्यादि भाष्य एव विस्तरेण व्याख्यातमित्युपरम्यते ॥ १८ ॥

 श्री० टी०-तदेवं कर्मादीनां दुर्विज्ञे[१]यं तत्त्वं दर्शयन्नाह-कर्मण्यकर्मेति । परमेश्वराराधनलक्षणे कर्मणि विषयेऽकर्म कर्मेदं न भवतीति यः पश्येत्तस्य ज्ञानहेतुत्वेन बन्धकत्वाभावात् , अकर्मणि च विहिताकरणे कर्म यः प [२]श्येत्प्रत्यवा[३]यापादकत्वेन बन्धहेतुत्वात् , मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान्व्यवसायात्मकबुद्धिमत्त्वाच्छ्रेष्ठः । तं स्तौति-स युक्तो योगी तेन कर्मणा ज्ञानयोगावाप्तेः । स एव कृत्स्नकर्मकर्ता च सर्वतःसंप्लुतोदकस्थानीये तस्मिन्कर्मणि सर्वकर्मफलानामन्तर्भूतत्वात् । तदेवमारुरुक्षोः कर्मयोगाधिकारावस्थायां न कर्मणामनारम्भादित्यादिनोक्त एवं कर्मयोगः स्फुटीकृतः । तत्प्रपञ्चरूपत्वाच्चास्य प्रकरणस्य न पौनरुक्त्यदोषः । अनेनैव योगारूढावस्थायां यस्त्वात्मरतिरेव स्यादित्यादिना यः कर्मानुपयोग उक्तस्तस्याप्य- र्थात्प्रपञ्चः कृतो वेदितव्यः । यदाऽऽरुरुक्षोरपि कर्म बन्धकं न भवति तदाऽऽ रूढस्य कुतो बन्धकं स्यादित्यत्रापि श्लोको योज्यते-कर्मणि देहेन्द्रियादिव्यापारे वर्तमानेऽप्यात्मनो देहादिव्यतिरेकानुभवेनाकर्म स्वाभाविकं नैष्कर्म्यमेव यः पश्येत् , तथाऽकर्मणि च ज्ञानरहिते दुःखबुद्ध्या कर्मणां त्यागे कर्म यः पश्येत्तस्य प्रतिबन्धकत्वेन मिथ्याचारत्वात् । तदुक्तं-" कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् " इति । य एवंभूतः स तु सर्वेषु मनुष्येषु बुद्धिमान्पण्डितः । तत्र हेतुः-यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्याहारादीनि कर्माणि कुर्वन्नपि स युक्त एवाकात्मज्ञानेन समाधिस्थ एवेत्यर्थः । अनेनैव ज्ञानिनः स्वभावादापन्नं कलञ्जभक्षणादिकं न [४]दोषोऽज्ञस्य तु रागतः कृतं दो[५]ष इति विकर्मणोऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥ १८ ॥

 म. टी.तदेतत्परमार्थदर्शिनः कर्तृत्वाभिमानामावेन कर्मालिप्तत्वं प्रपञ्च्यते ब्रह्मकर्मसमाधिनेत्यन्तेन-


  1. क. इ. झ. म. ज्ञेयत्वं द ।
  2. क. श्येत्तस्य प्रत्य।
  3. क. ख. ङ. च. छ. 'वायोत्पाद।
  4. क. दोषाया।
  5. क. दोषायति ।