पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
[अ०३ क्ष्लो०३१-३२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्वनियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्म चेतसाऽहं कर्ताऽन्तर्याम्यधीनस्तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्प्य निराशीर्निकामो निर्ममो देहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यो विगतज्वरः। संतापहेतुत्वाच्छोक एव ज्वरशब्देनोक्तः । ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुर्युध्यस्व विहितानि कर्माणि कुर्वित्यभिप्रायः । अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः । निर्ममत्वं त्यक्तशोकत्वं च युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यत्र ममताशोकयोरप्रसक्तत्वात् ॥ ३० ॥

 श्री० टी०-तदेवं तत्त्वविदाऽपि कर्म कर्तव्यं त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्वित्याह-मयीति । सर्वाणि कर्माणि मयि संन्यस्य समाध्यात्मचेत- साऽन्तर्याम्यधीनोऽहं करोमीतिदृष्टया निराशीनिष्कामोऽत एव मत्फलसाधनं मदर्थमिदं कर्मेत्येवममताशून्यश्च भूत्वा विगतज्वरस्त्यक्तशोकश्च भूत्वा युध्यस्व ॥ ३० ॥

 म० टी०-फलाभिसंधिराहित्येन भगवदर्पणबुद्ध्या विहितकर्मानुष्ठानं सत्त्वशु- द्धिज्ञानप्राप्तिद्वारेण मुक्तिफलमित्याह-

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ॥
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥

इदं फलाभिसंधिराहित्येन विहितकर्माचरणरूपं मम मतं नित्यं नित्यवेदबोधितत्वेनानादिपरम्परागतमावश्यकमिति वा सर्वदेति वा । मानवा मनुष्या ये केचिन्मनुष्याधिकारित्वात्कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टेऽर्थेऽननुभूतेऽप्येवमेवैतदिति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तः, गुणेषु दोषाविष्करणमसूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्नकारुणिकोऽयमित्येवरूपा प्रकृते प्रसक्ता तामसूयां मयि गुरौ वासुदेवे सर्वसुत्द्वद्यकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सम्यग्ज्ञानिवन्मुच्यन्ते कर्मभिर्धर्माधर्माख्यैः ॥ ३१ ॥

 श्री०टी०-एवं कर्मानुष्ठाने गुणमाह-ये मे मतमित्ति । मद्वाक्ये श्रद्धावन्तः, अनसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोषदृष्टिमकुर्वन्तश्च ये मे मदीयमिदं मतमनुतिष्ठन्ति तेऽपि शनैः[१] सम्यग्ज्ञानिवत्कर्मभिर्मुच्यन्ते ॥ ३१ ॥

 म०टी०-एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह-

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२॥


  1. क. छ. 'नैः कर्म कुर्वाणाः स' ।