श्रीमच्छकरदिग्विजयः । [ सर्गः १६] कुत्राप्यासीत्प्रलीने क्षणचरणकथा कापिली कापि लीना भग्राऽभमा गुरुक्तिः काचिदजनि परं भट्टपादपवादः । भूमावायोगकाणादजनिमतमथाभूतवाग्भेदवार्ता दुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेोर्धिधिमेतः ॥ ८९ ॥ काणादः क प्रणादः क च कपिलवचः काक्षिपादप्रवादः काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपघट्टम् ॥ क द्वैताद्वैतवात क्षपणकवितिः कापि पाषण्ड षण्ड ध्वान्तध्वंसैकभानोर्जयांत यांतिपतेः शारदापीठवासे ।। ९० ।। ततो दिविषदध्वनि त्वांरतमध्वराशावली धुरंधरसमीरितत्रदशपाणिकोणाहतः । अरुन्द्ध हरिदन्तरं स्वरभरैर्नमत्सिन्धुभि र्घनाघनघनारवप्रथमबन्धुभिदुन्दुभिः ॥ ९१ ॥ किंच दुदन्तैरुद्धतैर्वादिभिः सह ब्रह्मविद्यागुरोः श्रशशंकरस्य वादलक्षणवृतक थाया दुन्दुभेर्षिविम इति शब्दादीक्षणचरणस्याक्षपादस्य गौतमस्य कथा कापि प्रकर्षेण लीनाऽऽसीत्तथा कापिली कपिलकथा कापि लीनाऽऽपीत्तथा पूर्वमभमाऽपि प्रभाक रोक्तिर्भग्राऽऽसीत् । भट्टपादपवादः परं केवलं कविदपि भूमावजनि प्रादुर्भतः । किंचाथ तथा पातञ्जलैः काणादैश्च जनितं यन्मतं तदभिव्याप्य भेदवार्ताऽभूतवागनु चितवागासीत् । असमवागिति वाऽसत्यवागिति वा । 'भूतं क्ष्मादौ पिशाचादौं जन्तौ कीबं त्रिवृचिते। प्राझे वृत्ते समे सत्ये देवयोन्यन्तरे तु ना’ इति मेदिनी।। ८९ ।। किंच पौषण्डसंघातात्मान्धकारध्वंसैकसूर्यस्य यतिपतेः शारदापाठवासे जयति सति काणादः प्रवादः क न कापीत्यर्थः । कापि क च क्षपणकविवृतिरार्हतव्याख्यानम् ॥९०॥ [ मघट्टे वाक्यरचनम् । द्वैतेति । भट्टभास्करसंमतभेदाभेदकथेत्यर्थः ] ॥९०॥ ततः शारदापीठारोहणानन्तरं दिविषदध्वनि देवमार्गे त्वरितं झटिति यज्ञभुक्प ङ्गिधुरंधुर इन्द्रस्तेन सम्यक्प्रेरितानां देवानां हस्तप्रान्तभागैराहत आसमन्तात्ताडितो दुन्दुभिभ्रमन्तः सिन्धवः समुद्रा यैर्घनाघनो मेघस्तस्य घनीभूतानामारवाणां शब्दानां प्रथमबन्धुभिस्ततुल्यैः स्वराणामतिशयैर्हरितां दिशामन्तरमन्तरालमरुन्द्ध रोधितवान् । पृथ्वी वृत्तम् ॥ ९१ ।।
- ग. 'दुरुदुक। घ. दुहृद'। २ घ. 'वृतिद्वैतपा'। ३ क. पाखण्ड।