[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ९९५ अपि साधनभूतसप्तभङ्गीनयमप्यार्हत नाऽऽद्रियामहे ते ॥ परमार्थसतां विरोधभाजां स्थितिरेकत्र हि नैकदा घटेत ॥ १५ ॥ इति माध्यमिकेषु भग्रदर्षेष्वथ भाष्याणि स नैमिशे वितत्य ॥ दरदान्भरतांश्च शूरसेनान्कुरुपाञ्चालमुखान्बहूनजैषीत् ॥ ५६ ॥ पटुयुक्तिनिकृत्तसर्वशास्त्रं गुरुभट्टोदयनादिकैरजय्यम् । स हि खण्डनकारमुढदर्प बहुधा व्युद्य वशंवदं चकार ॥ ५७ ॥ तदनन्तरमेष कामरुपानाधिगत्याभिनवोपशब्दगुप्तम् ॥ अजयत्किल शाक्तभाष्यकारं स च भम्रो मनसेदमालुलोचे ॥ ५८ ॥ निगमाब्जविकासिबालभानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् । न कथंचन मद्वशंवदोऽसौ तदमुं दैवतकृत्या हरेयम् ।। ५९ ।। इति गूढमसौ विचिन्त्य पश्चात्सह शिष्यैः सहसा स्वशाक्तभाष्यम् । परिहृत्य जनापवादभीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥ १६० ।। अपि च हे आईत ते साधनभूतसप्तभङ्गीनयमपि नाऽऽद्रियामहे । हि यस्मात्परमा र्थसतां विरोधभाजां सदसत्त्वादिधर्माणामेकस्मिन्धर्मिण्येकदा युगपत्स्थितिर्न घटेत ॥५५॥ इत्येवं माध्यमिकेषु भग्रगर्वेषु सत्स्वथानन्तरं स श्रीशंकराचायों नैमिशे भाष्याणि विस्तार्य दरदादिकान्देशविशेषाञ्जितवान् ॥ ५६ ॥ [ माध्यमिकेषु मध्यमपरिमाणा त्मवादिषु दिगम्बराख्यार्हतमतानुयायिषु नास्तिकविशेषेष्वित्यर्थः ] ॥ ५६ ॥ स हि भाष्यकारः खण्डनकारं श्रीहर्षाख्यं बहुधा वादं कृत्वा वशंवदं चकार । तै विशिनष्टि । पटुयुक्तिभिः खण्डितानि सर्वशास्त्राणि येन । गुरुः प्रभाकरो भट्टो'भट्टपादो भट्टभास्करश्च । गुर्वदिभिर्जेतुमशक्यमत एवोढदर्पम् ॥५७॥ [ उदयनो न्यायभाष्य कारः । आदिना पार्थसारथिमिश्रादयः । व्युद्य वादं कृत्वा ] ॥ ५७ ॥ कामरूपान्देशविशेषानविगत्य प्राप्य अभिनव उपशब्दो यस्य स चासँौ गुप्तश्च तमभिनवगुप्तमिति यावत् । स च भग्रोऽभिनवगुप्ताचार्यो मनसेदं वक्ष्यमाणं विचार यामास ॥ ५८ ॥ [ शातेति । शक्तिपरत्वेन ब्रह्मसूत्रभाष्यकर्तारम् ] ॥ ५८ ॥ तदेवाऽऽह । वेदाब्जविकासिनो बालसूर्यस्यामुष्य शंकरस्य समस्त्रिलोक्यां न विलोक्यतेऽतोऽसौ मद्वशंवदः कथंचिदपि न भविष्यति । तस्मादमुं दैवतकृत्ययाऽहं परिहरेयम् ॥ ५९ ॥ इत्येवमसौ गृढं विचिन्त्य पश्चाच्छिष्यैः सह विचिन्त्य जनापवादभयेन स्वशाक्त भाष्यं सहसा परित्यज्यैष यमिनः शिष्य इवान्ववर्तत ॥ १६० ॥ १ ग. 'ो भट्टभा' ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९३
दिखावट