सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । [ सर्गः १५] इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।। उत वा पृथगेव तत्र नाऽऽद्यो मिलिताः पञ्च न हि कचिद्यत: स्युः ॥२२॥ चरमोऽपि न युज्यते तदाऽङ्गाङ्गिकभावस्य च तत्रता न किं स्यात् ॥ न च योजकगौरवं च दोषः प्रकृते तस्य तवापि संमतत्वात् ॥ २३ ॥ अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत ।। अपि सोऽत्र न दुर्लभश्चिदात्माङ्गकयोः कारणकार्यभावभावात् ॥ २४ ॥ न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति । तद्भेदत एव सर्वकस्याप्युपपत्तेरिह जीवकार्यतायाः ॥ २५ ॥ तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ॥ भ्रमधीममितित्ववेदिनोऽतस्तव न भ्रान्तिपदार्थ एव सिध्येत् ॥ २६ ॥ अपि च त्रिम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।। परिणाम इहाऽऽदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥२७॥ पारिहरति । इति चेन्नेति । किं मिलितानामेतेषां भेदाभेदप्रयोजकत्वमुत पृथगेव । तत्राऽऽद्यो न संभवति यतो मिलिताः पञ्च कविदपि न स्युः ॥ २२ ॥ अन्त्योऽपि न युज्यते तदा प्रत्येक प्रयोजकत्वं गुणगुणिभावादिवदङ्गाङ्गकभावस्य देहदेहिभावस्यापि प्रयोजकत्वं किं न स्यात् । न च प्रयोजकगौरवमपि दोषः । प्रकृते तस्याङ्गाड़िकभावस्य तवापि संमतत्वात् । देहदेहिनोभेदाभेदानङ्गीकारे सर्वसंकरवादिन स्तव सिद्धान्तो बाध्येत ।। २३ ।। अपि च जातिजातिवत्प्रभृतीनां जातिव्यक्त्यादीनामन्यतमस्य प्रयोजकत्वेऽभिाने वेशश्चेत्सोऽप्यत्र दुर्लभो नास्ति । चिदात्मशरीरकयोः कार्यकारणभावसत्वात् ॥ २४॥ सकलस्यापि परात्मकार्यत्वात्र जीवकार्यतेतीदं त्वया न च वाच्यम् । जीवस्य ब्रह्मा भेदादेव सर्वस्यापह जीवकार्यताया उपपत्तेः ।॥ २५ ॥ असिद्धयादिदोषवैधुर्यादनुमानं निरवद्यमित्युपसंहरति । तत्तस्मादसिद्धयादीनाम नुमानदोषाणामनुद्यादुक्तानुमानस्य निर्मलत्वमतो भ्रमप्रमितित्ववेदिनस्तव भ्रमपदार्थ एव न सिध्येत् ॥ २६ ॥ अहं मनुज इत्यादिप्रत्ययानां याथाथ्यन्न भ्रमत्वमित्युक्त संप्रति समवाथिकारण यलोचनयाऽपि भ्रमत्वं प्रतिक्षिप्यत इत्याह । अपि चैष भ्रमः किं तव मतेऽन्तःकर णस्य परिणामोऽथवा चिदात्मनोऽसैौ परिणाम इत्यस्मिन्पक्षद्वय आद्यो न संभवति । तस्य त्रमस्याऽऽत्मगतत्वानुभवस्य भङ्गापत्तेः । मृजस्य घटस्य तन्त्वन्नाश्रयत्ववदन्तःकर णपरिणामित्वे भ्रमस्याऽऽत्माश्रयत्वं न स्यादित्यर्थः॥२७॥[एषोऽहं मनुष्य इति भ्रम:]२७