१५८६ श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ॥ इति चेन्न विवक्षितस्य हेतोव्र्यभिचारात्पुनरप्यमुत्र चैव ॥ १३ ॥ ननु गोत्व उपाधिके त्वमुण्य प्रतिपन्नस्य हि तत्र नो निषेधः ॥ अपि तु प्रथमानमुण्ड इत्यत्र तथाच व्यभिचारिता न हेतोः ॥ १४ ॥ इति चेन्न विकल्पनासहत्वात्किमु खण्डस्य तु केवले निषेधः ॥ उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसक्तयभावात् ॥ ११५ ॥ न हि जात्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संप्रसक्तयभावः ।। चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ १६ ॥ स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् । तदिहोदितहेतुसत्त्वतोऽस्य व्यभिचारो दृढवज्रलेंप एव ॥ १७ ॥ ननु नायं निषिध्यमानविषयत्वमात्रं हेतुः किंतु प्रतिपन्नोपाधौ निषिध्यमानवि षयत्वमिति भट्टभास्करः शङ्कते । नन्विति । प्रतिपन्नस्य प्रतीतस्योपधिक उपाधाव विष्ठाने । तथाचेदमंशे प्रतिपत्रं तत्रैव निषिध्यते नेदं रजतमिति तथाऽऽत्मनि पति पत्रं मनुजत्वं तत्रैव निषिध्यत इति तस्य भ्रमत्वं खण्डो गौरित्यस्य तु तद्वैपरीत्यान्न तत्त्वामिति भावः । दूषयति । इतीति । तत्र हेतुर्विवक्षितस्य हेतोः पुनरप्यमुत्र खण्डो गौरित्यमुष्मिन्व्यभिचारादेव ॥ १३ ॥ ननु नायं खण्डः किंतु मुण्ड इति गोत्व उपाधौ प्रतिपन्नस्य खण्डस्य न तत्र निषेधोऽपि तु पथमानमुण्ड इति तथाच हेतोव्र्यभिचारिता नास्तीति शङ्कते । नन्विति ॥ १४ ॥ परिहरति । इति चेन्न विकल्पनामहत्वात् । विकल्पनापहत्वमेव दर्शयाति । किमु चखण्डस्य केवले मुण्डे निषेध उत गोत्वोपहिते मुण्डे स निषेधस्तत्र प्रथमो न युज्यते माप्त्यभावात् || १५ ।। हि यस्मादिह भूतले घटो नेत्यत्र भूतलसंसृष्टतया प्रतिपन्नस्य स्मर्यमाणस्यान्यत्र निषेधो दृष्टः परो मुण्डस्तु कदाचिदपि खण्डे प्रसक्तो न भवतीत्येतस्मात्प्रसक्त्यभावः । द्वितीयं प्रत्याह । चरमोऽपि न यतो गोत्वोपहितमुण्डे खण्डस्य निषेधसमय एव मुण्डविशेषणीभूतगोत्वेऽप्येतस्य खण्डस्य निषेधनं श्रुतं स्याद्यथेदभि प्रतिपन्नाभिदंतो पहितशुक्तिव्यक्तौ निषिध्यते तद्वदित्यर्थः । तत्तस्मादह प्रतिपन्नेोपाधौ निषिध्यमान विषये खण्डज्ञान उक्तहेतोः प्रतिपन्नोपाधौ निषिध्यमानविषयस्य सत्वादस्य हेतोव्र्य भिचारो दृढवज्रलेप एव ॥ १६ ॥ १७ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८४
दिखावट