[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ५७३ इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् । निगमान्तवचः प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्छम् ॥ ४९ ॥ अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् । शृणु तत्त्वमसीतिसंप्रदायश्रुतिवाक्यस्य परावरेऽभिसंधिम् ।। ५० ।। ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने । अविरोधि तु वाच्यमाददैक्यं पदयुग्मं स्फुटमाह को विरोधः ॥ ५१ ॥ यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।। अभिदाघटकं तयोर्यत: स्यादुभयोर्लक्षणयाऽभिदानुभूति ॥ ५२ ॥ ननु मौढ्यसमस्तवित्त्वधर्मान्वितजीवेश्वररूपतोऽतिरिक्तम् । उभयोः परिनिष्ठितं स्वरुपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥५३॥ इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्तया । तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ।। ५४ ।। इत्येवं युक्तिशतैः स कविनलकण्ठो वेदान्तवचोभिः प्रकाश्यमानमद्वैतपक्षमक्षोभयन् । यथा प्रफुलं सरोजवनं हस्तिपोतः क्षोभयति तद्वत् ।। ४९ ।। अथ तत्कृताद्वैतपक्षोभानन्तरं नीलकठेनोक्तं दोषजालं यस्मै स भगवाञ्शंकरा चार्य उवाच । एवं त्वदुक्तं यथेष्टमस्तु तथाऽपि तत्त्वमसीतिसंप्रदायश्रुतिवाक्यस्य परावरेऽभिसंविमभिप्रायं शृणु । परे ब्रह्मादयोऽवरे यस्मात्तथाभूतेऽखण्डैकरपे । थद्वा कार्योपाधिको जीवः कारणोपाधिरीश्वर इत्युक्तत्वात्कारणाभिन्ने कार्ये ।। ५० ।। इह तत्त्वमसिवाक्ये सोऽयमितिवद्विरुद्ध ताबुद्धिर्ननु वाच्यगता न तु लक्ष्यगना । तथाच भागलक्षणया तस्य विरराघवस्य हाने सत्यविरोधि वाच्यं चैतन्यमात्रं तु स्वीकु वेत्तत्वमिति पदद्वयमक्यं स्फटमाहातः कोऽपि विरोधो नास्ति । ५१ ।। यत्वपरथेत्याद्युक्तं तत्राऽऽह । यदिति । इहवमुच्यमाने योऽतिप्रसङ्गात्वयोक्त स न भवेत् । हि यस्माद्रवाश्वयोरभेदघटकं प्रमाणं नास्ति । यतः प्रमाणात्तयोर्गवा धयोरुभयोर्भागलक्षणया भेदानुभवः स्यादित्यर्थः ॥ ५२ ॥ नीलकण्ठः शङ्कते । ननु 'मौढ्यधर्मान्वितजीवस्वरूपात्सर्वज्ञत्वधर्मयुक्तश्वरस्चरूपा चातिरिक्तमुभयोजवेश्वरयोः परिनिष्ठितं स्वरूपं खलु नास्त्येव । यतस्तथाभूतस्वरूप सत्त्वादत्र स्वरूपे लक्षणा स्यात् । यद्वाऽत्र तत्त्वमसिवाक्ये ।। ५३ ॥ [ परिनिष्ठितं वस्तुस्वभावसिद्धम् ] ।। ५३ ।। परिहरति । इति चेन्न । तत्र हेतुमाह । मैौढ्यादिविरुद्धधर्मविशिष्टं जीवादिस्वरूपं ७२ १ घ. मीख्र्यध' ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७१
दिखावट