१५६४ श्रीमच्छंकरदिग्विजयः । [ सर्गः १५] गुरुः ॥ २६ ॥ शून्यत्वात्ते मतं निन्द्य शून्यस्य ब्रह्मता न च ॥ तमेव भान्तमित्यादि श्रतस्तस्माद्वमूतृढताम् ॥ २७ ॥ विहायद्वैतविद्यां त्वं समाश्रित्य पुखी भव ॥ इत्यु क्तस्तं पुनः प्राह खवं ब्रह्मास्तु श्रुतीरितम् ॥२८॥ अभाकाशः सर्वभूतेभ्यो जायान्सोऽस्ति परायणम् ॥ तं प्रत्येवास्तमायान्तीत्येवं हि श्रुतिरब्रवीत् ॥ २९ ॥ किंच वेदान्त आकाशास्तलिङ्गादिति तस्य सा । निश्चिता ब्रह्मता तस्मात्स्वीकर्तव्यमिदं मतम् ॥२३०॥ इत्युक्तोऽसौ गुरुवर माह मैवं भो मूढतम कदाऽपि । वाच्यं खं यत्सगुणमतो नास्य ब्रह्मत्वं ननु पवनस्य ॥ ३१ ॥ हेतुः मोक्तं खलु परकार्य सद्वेदेऽसावुभयविबोधी । आकाशोऽतः परमिह बोध्यः शब्देनैतेन न तु खमेतत् ॥ ३२ ॥ ज्यायस्त्वं यस्य खादिभ्यः श्रुत्या सम्यगुदीरितम् । तन्नह्मानन्दविज्ञानं सन्मात्रं द्वैतवर्जितम् ॥ ३३ ॥ अन्तवत्वेन दोषेण शालावत्यमतं पुरा ॥ निन्दित्वा शैवली राजा दोषयुक्तं कथं वदेत् ॥ ३४ ॥ एवमसैौ श्रवणादतिहृष्टः प्राह गुरुं परमं पुनरित्थम् ।। दर्शनतो भवतामहमेषः पावनतामुपयात इतस्त्वम् ॥ २३५ ॥ ब्रह्मोपदेशं कुरु येन मुक्तः स्यामित्यसौ प्रोक्त उवाच भूयः । आकाशमात्मानमुपास्च सम्यग्घृदि स्थितं तेन तवास्तु मोक्षः ॥ ३६ ॥ इत्युक्त आचार्यवरस्य शिष्यो बभूव तं शंकरदेशिकेन्द्रम् ॥ प्राहाऽऽगतो भक्त इदं वराहे नत्वा येते मे शृणु सुन्दरं मतम् ॥ ३७ ॥ प्रलयाम्भसि लीनाऽऽदिवराहेणोदृता मही। येन तं मुक्तिसिद्धयर्थ भजध्वं युक्तचेतसः ॥ ३८ ॥ दंष्ट्राङ्कितभुजाः सर्व इत्युक्तः प्राह तं गुरुः | मैवं हि ब्राह्मणेनैकं तपः कार्यं प्रयत्नत ॥३९॥ वेदोक्त यदि चिह्नानां धारणेऽस्ति दुराग्रहः | तदाऽझैः कृमत्स्यादेरङ्कनीयं शारीरकम् ॥ २४० ॥ वेदोक्तकर्मणोऽन्येन विमस्यार्थो न कश्चन ।। सगुणं ब्रह्म संसे व्यमिति चेत्सेव्यतां मुदा ॥ ४१ ॥ शिवविष्ण्वादिरूपं तत्संत्यक्त्वा विह्नवारणम् । विप्रः संत्यक्तसंध्यादिकर्मा दण्डं समर्हति ॥ ४२ ॥ तम्मान्मूढमतिं त्यक्त्वालिङ्गशून्यः कुलोचितम् । कुरु कर्मव तेन त्वं शुद्धो मुक्ति गमिष्यपि ॥ ४३ ॥ ज्ञानलाभेन साऽप्युक्ता ज्ञानं प्राप्य गुरोर्मुखात् । बभूव लक्ष्मणाख्योऽस्य शिष्यः परमतापस ॥ ४४ ॥ ततोऽन्यः कामकर्मरूयो मनुलोकसुसेवकः ॥ आगत्यतं नमस्कृत्य प्रोवाच परमं गुरुम् ।। २४५ ॥ लोकानां संघ एवास्ति परेशोऽतो मुमुक्षुभिः ॥ सेवनीयो भव द्भिर्वे स एवानन्यबुद्धिभिः ॥ ४६ ॥ सत्यलोकात्मिका मुक्तिस्तत्सवातो न चान्यथा।। इत्युक्तः प्राह भो मूढतम नानित्यसेवया ॥ ४७ ॥ अभवृतभूतया मुक्तिः सत्यरूपा न लभ्यते । इत्युक्तोऽसैौ गुरुं नत्वाऽद्वैतवृत्याश्रितोऽभवत् ॥ ४८ ॥ ततस्तं गुणसे वायां तत्पराः परमं गुरुम् ॥ नेत्वोचुहिँ गुणाः स्वामिन्कारणं जगतां मताः ॥ ४९ ॥ ब्रह्मादीनां हि कर्तारस्तेषां सेवापरा वयम् ॥ कृतार्थाः सर्वसंपूज्यास्तेषां सर्वमयत्नत १ घ.'खं वै सगु । २ ग. मतं । ३ घ. सादरं । ४ ग. सन् । ५ घ. नत्वा प्रोचुर्ग'
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६२
दिखावट