सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । योगिनस्तत्त्वदर्शिनः ॥ मुद्रयाऽङ्कितदेहो दत्तात्रेयोऽस्तीतैि केनाचित् ॥ १९० । श्रुतं नैव ततो मूढबुद्धिं त्यक्त्वा सुखी भव ॥ पुराणेषु श्रुतं चिह्नधारणं त्विति नोचि तम् ॥ ९१ ॥ पैङ्गादस्य बिभीषणस्य गजराजस्य धुवस्याऽऽनिलेद्रपद्या ब्रजवा सिनां च खलु कश्चक्राङ्कनं रेऽकरोत् । तस्मान्मूढमतिं विहाय सकलं पॉखण्डचिह्न त्यज ब्रह्मास्मीति विभावनेन सुपुखं गच्छाऽऽशु मोक्ष पदम् ।। ९२ ॥ अवश्यं चेत्वया कार्य चिह्नानां धारणं तदा ।। कपोलयोर्गले चैव शेषेण गरुडे न च ॥९३॥ अङ्कनं कुरु कर्मेन्द्रियप्रधाने भुजद्वये ।। कपोलद्वितये चैव ज्ञानेन्द्रियसमीपगे ।। ९४ ।। चिह्निते पशुवद्धतुं योग्यो भव विबन्धन ॥ तथाचैवंविधस्यात्र वैष्णवस्य स्वकर्मणा ॥ १९५ । हीनस्य शुभ्रवस्त्राणां धारणं त्ववशिष्यते । न तु कर्मान्निहोत्रादीत्युक्तः संपाइ सदुरुम् ॥ ९६ ॥ स्वामिंस्तव प्रसादेन सविवेकोऽस्मि नाङ्कितः ॥ किंतु मे गुरुरेवाऽऽसीत्तथेति भगवञ्श्रुतम् ।। ९७ । ततः शुद्धाद्वयस्थं मां कुरु त्वं यतिशे खर ॥ इति विज्ञाप्य तं भूमौ दण्डवत्प्रणिपत्य च ॥ ९८ ॥ कृताञ्जलिं समासीनमी षन्नम्र विलोक्य सः । करुणानिधिराचार्यः प्रहसन्निदमब्रवीत् ।। ९९ ॥ ब्रह्नौवाहं न संसारी मुक्तोऽहमिति भावय ॥ तस्मिन्विवावशक्तस्त्वं वाक्यमेतदुदीरय ॥ २० ॥ इत्यभ्यासपरित्यक्तद्वंद्वैषणषडूर्मिकः ॥ विदित्वा परमात्मानं मुक्तोः भवसि नान्यथा ॥२०१॥ इति संबोवितः शिष्यः कृतार्थोऽहमितीरयन् ॥ ब्रह्माहमिति संजल्पन्य स्वकुलसंयुतः ॥२०२॥ तत आचार्यमागत्य नामतीर्थो हि वैष्णवः ॥ कर्महीन इदं प्राह भोः स्वामिञ्शृणु मे मतम् ॥३॥ शेषेणाप्यप्रकम्प्यं वै सर्व विष्णुमयं जगत् ॥ इत्यादेशा द्यतो मोक्षं गुरुरेव प्रयच्छति ॥४॥ तदानीं भगवन्तं स गुरुः पार्थयते प्रभो। मच्छिष्यं निजपादारविन्दं प्रापय सोऽप्यथ ॥ २०५ । एवमुक्तः करोत्येव तथैव जगदीश्वरः । तस्मान्मम पुनर्जन्महेत्वभावो यतीश्वर ॥ ६ ॥ जीवन्मुक्तोऽहमेवं वै भवन्तो पि मुमुक्षवः ॥ कमेहीनाः सुरेशं तं विष्णु सर्वमयं प्रभुम्।। ७ । समालम्ब्याञ्जसा मुक्ता भविष्यन्तीति निश्चयः । एवमुक्तो गुरुः प्राह सत्यमुक्तं त्वया मतम् ॥ ८ ॥ कर्मभ्रष्टो भवाञ्जीवन्मुक्त एव न संशयः । निन्द्यानिन्द्यविहीनः सन्पवृत्तोऽसि पिशाचवत् ॥ ९ ॥ वेदोक्तसर्व कर्मणि कृत्वा तेषां फलार्पणम । कर्तव्यं ब्रह्मणीत्येवं ज्ञानमार्गेऽयमीरितः ॥२१०॥ फलार्थे कर्मकरणं कर्ममागऽस्ति तद्विधात् ॥ भ्रष्टस्त्वं दण्डनीयोऽसि विष्णुभक्तोऽपि नो भवान् ॥ ११ ॥ न चलात निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न जैहति न च हन्ति कविदुचैः सितमनसं तमोहि विष्णुभक्तम् ।। १२ । श्रुति

  • अत्राऽऽर्षत्वाधस्वोऽप

१५४३ जद्दतिर्वा कल्पनीय १ घ. मुद्राङ्किततनुर्दता'। २ घ. 'ति तु के'। ३ ग. प्रह्लादस्य । ४. क. घ. विभीषणस्य 1. ५. ग. घ. पाषण '। ६ ग. घ, "म्प्यं यत्सवे । ७ ग. घ. "हमस्म्ये वं भ '।