पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुमुक्षुभिः ॥ २१ । लक्ष्म्याः समाराधनतत्पराणां पवाक्षमालाभिरलंकृतानाम् । बाह्वोश्च कञ्जाङ्कविभूषितानां सुकुङ्कमेनाङ्कितमस्तकानाम् ।। २२ । इस्तस्थिता मुक्ति रतो भवद्भिरुपासनीया सकलेश्वरेश्वरी । इत्युक्त आहादुतमेतदुक्तं मतं भवद्भिः शृणु तापि तत्त्वम् ।। २३ ॥ स्रष्टा परात्मा न तु काश्चिदन्य एकोऽद्वितीयः सदसत्स्वरूपः ॥ तत्त्वं स आत्मेति निबोधितः श्रुतावानन्दरूपः स तु वर्तते सदा ।। २४ ॥ प्रकृते स्तद्धीनाया मोचकत्वं न संङ्गतम् । अहं ब्रह्नोति यो ध्याता तस्य मुक्तिः कर स्थता ।। २५ । अनित्योपासकानां तु लोकावाप्तिस्तथाविधा । अतो यूयं परि त्यज्य पद्मकुङ्कमधारणम् ।। २६ । शुद्धामद्वैतविद्यां वै समाश्रित्य सुसाधवः । मुक्ता भावष्यथत्युक्ताः शप्यतां समुपागताः ।। २७ ॥ तत आगत्य चाऽऽचाय शारदा। पासने रताः ॥ पुस्तपुण्डूकचिङ्गेन युक्ता नत्वा बभाषिरे ॥ २८ । स्वामिन्वेदस्य नित्यत्वाच्छारदा नित्यरूपिणी ॥ कारणं सर्वलोकानां परात्परतरा मता ।। २९ ।। जगत्कत्रीति नित्या वागिति च श्रुतिवाक्यत ॥ सैवाऽऽत्मब्रह्मविष्ण्वादिशब्दजालैरुदा हृता ।। ३० । गुणातीतस्वरूपा च सेव्या सर्वेर्मुमुक्षुभिः । वागपासनमेवातः करुध्वं सुप्रयत्नतः ।। ३१ । नावेदेत्यादिवाक्येन वेदार्थज्ञानवार्जित । तत्परं. वाक्स्वरूपं ना न वेदेति प्रकाशनात् ।। ३२। वाक्स्वरूपानुसंधानं सर्वदा निश्चयेन हि । वेदा थज्ञानपूर्वे वै' प्रकर्तव्यं द्विजातिना ॥ ३३ । इत्युक्तो भगवानाह कण्ठताल्वादिसंग मात् ।। समुदूतस्य वेदस्य नित्यता कथमुच्यते ।। ३४ । वर्णमात्रस्य नित्यत्वं वणो नां संततेरुत । नाऽऽद्यः सर्वलये तेषां लयसंभवहेतुत ॥ ३५ ॥ यस्य निःश्धसितं वेदा इति जन्यत्वदर्शनातू । यजन्यं तदनित्यं चेति प्रमाणान्न चान्तिम: ॥ ३६ ॥ महर्षिभ्यो रविः प्राह सृष्टिकालेऽखिलप्रभुः ॥ युगान्ते प्रलयं यातं वेदमङ्गसमन्वि तम् ॥ ३७ ॥ इत्युक्त सूर्यसिद्धान्ते वेदराशेः प्रवर्तनम् ॥ गतस्य प्रलयं सूर्याच्छार दानेत्यता कुतः ॥ ३८ । अनित्यत्वेऽपि देवानां ब्रह्मणो नित्यता मता । नित्या सा शारदाऽतश्चत्रैव रम्यमिदं यतः ।। ३९ । आद्यस्य जीवस्य चतुर्मुखस्य नित्यत्वशून्यस्य मुखे स्थितायाः । अनित्यतायां खलु शारदाया न संशयो बुद्धिम तोऽस्ति कश्चित् ।। ४० । प्रकृति: परमा सरस्वती या महदादेः सकलस्य कारण सा ।। इति चेन्न समक्षसं थेतोऽस्ति परमात्मव्यतिरेकिणो मृषात्वम् ।। ४१ । वागा द्यतीत: पर एव भूमा सदादिबोध्यः प्रकृतिर्न वाच्या । सदादिशब्दैरत एव तस्य ज्ञानं सुसम्यक् परिसाधनीयम् ॥ ४२ ॥ ज्ञात्वा तमेव खलु मुक्तिपदं प्रयाति माग न चान्य इति वेद उदाजहार । शुद्धाद्वये सततमेव रता भवन्तः स्नानादिकर्मपरमा र्पणबुद्धिमन्त: ।। ४३ ॥ कुर्वन्ननेकदुरितान्यपहाय दूरं शुद्धिं गताः सुखघनस्य विबो १ ग घ. तु । २ घ. किचित् । ५३१ ३ क. यतो वै प '।