सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ श्रीमच्छकरदिग्विजयः । संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे । पप्रच्छैनं मातुलो भुक्तवन्तं किं स्विच्छन्नं पुस्तकं शिष्यहस्ते ॥ ७ ॥ टीका विद्वन्भाष्यगेति बुवाणं तां देहीति प्रोचिषे दत्तवांश्च । अद्राक्षीत्तां मातुलस्तस्य बुद्धिं दृष्टाऽऽनन्दीत्खेदमापच किंचित् ॥ ८ ॥ प्रबन्धनिर्माणविचित्रनैपुणीं दृष्टा प्रमोदं स विवेद किंचित् । मतान्तराणां किल युक्तिजालै र्निरुत्तरं बन्धनमालुलोचे ।। ९ ।। गुरोर्मतं स्वाभिमतं विशेषा न्निराकृतं तत्र समत्सरोऽभूत् । साधुर्निबन्धोऽयमिति बुवाण स्तं साभ्यसूयोऽपि कृताभिनन्द: ।। ११० ।। सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।। विद्वन्यद्वद्रोगृहादौ परेषां प्रीति: पूर्णा नस्तथा पुस्तभारे ।। ११ ।। उपसंहरति । संदिश्येति । शालिनी वृत्तम् ॥ ७ ॥ एवं श्रुत्वा भाष्यगा टीकेति बुवाणं पद्मपादं तां टीकां देहीति मातुलः प्रोवाच । पद्मपादो दत्तवांश्च । किंचित्खेदं च प्रापत् ॥ ८ ॥ तस्येत्यादि विवृणोति । प्रेति । विवेद प्राप । खेदन्त्यिादि स्फोटयति । मतान्त राणामिति । उपजातिवृत्तम् ॥ ९ ॥ [नैपुण निपुणत्वम् ] || ९ ॥ किंच स्वाभिमतं मभाकरमतं विशेषात्तत्र निबन्धे निराकृतमालोकितवान् । भालुलोचे तत्रेति पदद्वयं मध्यमाणन्यायेनोभयत्रापि संबन्धनीयम् । यत एवमतस्तत्र निबन्धे समत्सरोऽभूत् । साधुनिंबन्धोऽयमिति तं बुवाणः साभ्यसूयोऽपि कृताभिनन्दोऽ [ सर्गः १४] १ ख. घ. स्फोरय'। अथ पद्मपाद उवाचेमं पुस्तकभारं तवाऽऽलये न्यस्य सेतुं गच्छामीत्यत्र मे मनो