पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । ततः शरचन्द्रमरीचिरोचि वैिचित्रपारिपुवकेतनाढ्यम् ॥ विमानमादाय मनोज्ञरुपं प्रादुर्बभूवुः किल विष्णुदूताः ॥ ४३ ॥ वैमानिकांस्तान्नयनाभिरामा विमानमारोप्य विराजमान मनायि तैः सा बहुमानपूर्वम् ॥ ४४ ॥ इयमर्चिरहर्वलक्षपक्षा पडुदङमाम्पसमानिलार्कचन्द्रान् । चपलावरुणेन्द्रधातृलोका न्क्रमशोऽतीत्य परं पदं प्रपेदे ।। ४५ ।। स्वयमेव चिकीषुरेय मातु श्वरमं कर्म समाजुहाव बन्धून् ।। किमिहास्ति यते तवाधिकार कितवेत्येनममी निनिन्दुरुचैः ॥ ४६ ॥ अनन्लं बहुधाऽर्थिताऽपि तस्मै बत नाऽऽदत्त च बन्धुता तदीया ॥ वांखिलांस्तानशपच निर्ममेन्द्रः ॥ ४७ ॥ [ अम्बुजेति । अम्बुजायाः कमलाया आक्षिणी नेत्रे यस्मिन्स तथा तमित्यर्थः । एतेन परमसुन्दरत्वं तत्र सूच्यते ] ॥ ४२ ॥ विचिव कम्पमानैध्र्वजैराढ्यम् । उपजातिवृत्तम् ॥ ४३ ॥ विराजमानं विमानमारोप्य सा तैर्बहुमानपूर्वमानीता ॥ ४४ ॥ अर्चिरग्रिहर्दिनं वलक्षपक्षः शुक्रुपक्ष: षडुदङ्मासा उत्तरायणमासाः समा संव त्सरः । इयं सत्यर्चिराद्यभिमानिदेवता वायुसूर्यचन्द्रविद्युद्वरुणादिलोकांश्च क्रमशोऽ तीत्य परं पदं वैकुण्ठं प्रपेदे । वसन्तमालिका वृत्तम् ॥ ४५ ॥ मातुरन्त्यं दाहादिकर्म स्वयमेव कर्तुमिच्छुर्बन्धून्समाहूतवान् । हे यते कितव वश्व कास्मिन्कर्मणि तवाधिकारः किमस्तीत्येवममी बन्धव उचैर्निनिन्दुः ॥ ४६ ॥ न केवलं निन्दामेव कृतवन्तोऽपि तु बहुधा प्रार्थिताऽपि तदीया बन्धुता । बते [ सर्गः १४] १ ख. ग. घ. "स्तीत्यमी ।