४९४ श्रीमच्छंकरदिग्विजयः । विलोक्य ताञ्शूलपिनाकहस्ता त्रैवानुगच्छेयमिति बुवन्त्याम् ॥ तस्यां विसृज्यानुनयेन शैवा नस्तौदथो माधवमादरेण ॥ ३८ ॥ [ सर्गः १४ ] स्वसेवासमायातदेवासुरेन्द्रानमन्मौलिमन्दारमालाभिषिक्तम् । नमस्यामि शंभो पदाम्भोरुहं ते भवाम्भेधिपोतं भवानविभाव्यम् ॥ ५ ॥ जगन्नाथ मन्नाथ गौरीश नाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ६ ॥ महादेव देवेशा देवादिदेव स्मरारे पुरारे यमारे हरेति । बुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ।। ७ ।। विरूपाक्ष विश्वेश विश्वाधिकेश त्रयीमूल शंभो शिव त्र्यम्बक त्वम् । प्रसीद स्मर त्राहि पश्यावपुष्य क्षमस्वाऽऽमुहतीक्ष पाहि क्षिपामः ॥ ८ ॥ त्वदन्यः शरण्यः पपन्नस्य नेति प्रसीद स्मरन्नोऽवहन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालो दयां संनिवेहि ।। ९ ।। अयं दानकालस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्य कृपाशील शंभो कृतार्थोऽस्मि तस्मातू ।। १० ।। पशु वेत्सि चेन्मां त्वमेवाविरूढः कलङ्कति वा मृ िधत्से त्वमेव । द्विजिह्वः पुनः सोऽपि ते कष्ठभृषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥११॥ न शक्रोमि कर्तु परद्रोहलेशां कथं मयिसे त्वं न जाने गिरीश । तथा हि प्रसन्नोऽसि कस्यापि कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ॥१२॥ स्तुतिं ध्यानमचर्चा यथावद्विधातुं भजन्नप्यजानन्महेशावलम्बे । त्रपन्तं सुतं त्रातुमये मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १३ ॥ अकण्ठे कलङ्कादनङ्गे भुजंगादपाणौ कपालादभालेऽनलाक्षात् । अमैौलौ शशाङ्कादवामे कलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १४ ॥ इति । स च महादेवः स्तुत्या प्रसन्नः स्वदूतान्प्रेषयामास || ३७ ।। शूलपिनाकहस्तांस्ताञ्शिवदूतान्दृष्टाऽहं नैवानुगच्छेयमिति बुवन्त्यां तस्यां जनन्यां सत्यां शिवदृताननुनयेन विसृज्य लक्ष्मीपतिं स्तुतवान् ।। ३८ ।।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९२
दिखावट