पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४६१ श्रीमद्देशिकपादपङ्कजयुगीमूला तदेकाश्रया तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्वलुरी ॥ त्दृद्य तोटकवृत्तांतरुचिरं पद्यात्मकं सत्फलं लेभे भोनुकुमनोतिसत्तमशुकैरास्वाद्यमानं मुहुः ॥ ८० ॥ येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं निःश्रेणिः पदमुन्नतं जिगमिषोव्येम स्पृशन्ती परम् । वंश्या काऽप्यधरीकृतत्रिभुवनश्रेणी गुरूणां कथं सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥ ८१ ॥ इत्यादिभिर्गुरुशिष्यसंवादेन परतत्त्वव्यञ्जकैः ‘इह तोटकमम्बुधिसैः प्रथितम्’ इत्यु क्तलक्षणैस्तोटकवृतैः सह देशिकवरं श्रीशंकरं प्रत्यागतवानित्यर्थः । स्वागता वृत्तम् ॥ ७९ ।। श्रीमद्देशिकस्य पादपङ्कजयुगलं मूलं यस्याः स श्रीशंकर एव एक आश्रयो यस्यास्तस्य कारुण्यसुधावसेकेन सहिता तस्य गिरेर्भक्तिलक्षणा सद्वलरी तोटकवृत्त लक्षणेन वृन्तेन सवबन्धेन इयं सुन्दरं भोतुं मनो येषां तैः सत्तमलक्षणैः शुकैर्मुहु रास्वाद्यमानं पद्यात्मकं फलं लेभे । शार्दूलविक्रीडितं वृत्तम् ॥ ८० ॥ अत्र विस्मयो न कार्य इत्याशयेनाऽऽह । येनौन्नत्यं प्रापिता सती भूमौ यथेष्टं कृतपदा लब्धास्पदा । अधरीकृतत्रिभुवनपङ्किः । गुर्वी श्रेष्ठा गुरूणां सेवोन्नतं परं पदं मोक्षं गन्तुमिच्छोः काऽपि वंशोद्भवा निःश्रेणिरधिरोहणी तस्य यतीशितुर्गिरे स्तमोऽज्ञानं विरलं कथं न कुवर्ति ॥ ८१ ॥ [ क्षमायां भूमौ पक्षे परापराधसहिष्णु तायामित्यर्थः । काममत्यन्तम् । कृतपदा कृतावलम्बेति यावत् । उन्नतमुचतमं पदं स्थानं पक्षेऽद्वैतं ब्रहोत्यर्थः । जिगमिषोर्गन्तुमिच्छोः पक्षे मुमुक्षोः । परमुत्कर्ट पक्षेऽद्वैत ब्रह्माख्यम् । व्योम नभः पक्षे चिदाकाशम् । स्पृशन्त्यवलम्बमाना सतीति यावत् । काऽप्यमूल्यगुणा । वंश्या वंशाज्जाता वेणुविशेषसंभवेत्यर्थः । पक्षे ब्रह्मविद्यावंशपरंप रासंजातेति । यावत् अत एव । अधरीकृतेति । अधरीकृता नीचतां नीता त्रिभुव नश्रेणी त्रैलोक्यपङ्गिरपि यया सा तथेत्यर्थः । कथं न विरलं कुर्वीतापि तु विनाश येदेवेति योजना ] ॥ ८१ ॥ १ क. ख. घ. 'तन्तरु'। २ ग. घ. 'युगुलं । ३ क. घ. वृत्तेन । ४ क. घ. प्रवन्धेन ।