पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० श्रीमच्छकरदिग्विजयः । [ सर्गः १० ] ततः समादिश्य मुरेश्वराख्यां दिगङ्गनाभिः क्रियमाणसख्याम् ॥ सच्छिष्यतां भाष्यकृतश्च मुख्या मवाप तुच्छीकृतधातृसौख्याम् ॥ ४ ॥ निस्विन्लनिगमचूडाचिन्तया हन्त याव त्स्वमनवधिकसैौख्यं निर्विशन्निर्विशङ्कम् ॥ बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्ममे निर्ममेन्द्रः ॥ ५ ॥ इतिवशीकृतमण्डनपण्डित प्रणतसत्करणत्रयदण्डितः ॥ सकलसद्रणमण्डलमण्डित स निरगास्कृतदुर्मतखण्डितः ॥ ६ ॥ कुसुमितविविधपलाशत्रमदलिकुलगीतमधुरस्वनम् ॥ पश्यन्विपिनमयासीदाशां कीनाशपालितामेषः ॥ ७ ॥ ततो दिगङ्गनाभिः समं क्रियमाणसख्यां सर्वदिग्व्याप्तां सुरश्चराख्यां समादिश्य तुच्छीकृतं हिरण्यगर्भसैौख्यं यया तां भाष्यकारस्य मुख्यां शिष्यतां चावाप । उप जातिवृत्तम् ॥ ४ ॥ [ दिगित्यादि । ईदृशीं सुरेश्धराख्याम् । समादिश्य धातूना मनेकार्थत्वात्सुप्रसन्नाद्भाप्यकारात्सम्यक्संप्राप्येत्यर्थः ] ॥ ४ ॥ सुरेश्वरसंज्ञां प्राप्य वासं क कृतवानित्याकाङ्क्षायामाह । निखिलवेदान्तचिन्तयाँ सर्व स्वस्वरूपमनवधिकसैाख्यं निर्विशाङ्क विशङ्कारहितं निर्विशन्बहुकालं नर्मदां कांतु कदां तां नर्मदां नदीमभिबोऽसौ निर्ममानां ममतारहितानामिन्द्र सुरेश्वरो मगधभूमौ वासं निर्ममे । मालिनी वृत्तम् ॥ ५ ॥ [ ततो भगवान्भाष्यकारः सकलाशप्यैः सह माहिष्मत्यां रेवातीर एव च परित: स्वच्छन्दं बहुदिवसमुवासेत्याह । निखिलेति मालिन्या ] ॥ ५ ॥ अथाऽऽचार्यवृत्तान्तमाह । इत्येवं वशीकृतो मण्डनपण्डितो येन पणतानां सतां करणत्रयं दण्डितं येन तत्र मनः प्राणायामाद्युपदेशेन वाङ्मनोपदेशेन कर्मानहोपदेशेन सर्वेः पद्रुणमण्डलैरलंकृतः कृतं दुर्मतानां खण्डितं खण्डनं येन स निरगात् । द्रुत विलम्बितं वृत्तम् ॥ ६ ॥ कामाशां प्रति निरगादित्याकाङ्क्षायामाह । कुसुमितेषु विविधपत्रेषु भ्रमद्भिर्धमर १ क. त्स्वपदमधि'। २ घ. 'रानिस्वान'। ३ क. 'या यावत्स्वपदं स्वस्य ब्रह्मणो लाकादप्यधि ४ क. ग. 'ख्यं यो नि'। ५ स्व. घ. डू श'।