पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तदुक्तम् । ४०५ जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशटैः सुदुस्त्यजाम् ।। विवेकबद्धया परमेव संततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥ ८ ॥ साधारणे वपुषि काकसृगालवद्भि मात्रादिकस्य ममतां त्यज दुःखहेतुम् । तद्वज्जैहीहि बहिरर्थगतां च विद्धं श्चित्तं बधान परमात्मनि निर्विशङ्कम् ॥ ८९ ॥ जह्वलक्षणया विरुद्धं तत्कालैतत्कालविशिष्टत्वांशं विहाय पुरुषमविरोधवाच्यांशमादाय तलक्ष्यैक्यबोधनपरं तद्वत्तत्त्वमसिवाक्यं सर्वज्ञत्वसंमूढत्वरूपस्य विरोधिनोंऽशास्य हानि कृत्वाऽविरोधिवाच्यविदेशमादाय पदद्वयं तलक्ष्यैक्यबोवनपरमिति । वसन्ततिलका वृत्तम् ॥ ८७ ॥ यस्मादेवं तस्माचरार्जितां देहादिगतामहंबुद्धिं परित्यज । कया मत्येति तत्राऽऽह । उक्तविवेकबुद्धया यतः कर्मशाठेरतिशयेन दुम्त्यजाम् । तहंमातिः क विधेयेति तत्राऽऽह संततं परमात्मानमेवाऽऽत्मभावेन चिन्तय । किं तत इति चेत्तत्राऽऽह । यतः परस्यैवाऽऽत्मभावेन चिन्तनाद्विमुक्तता लभ्यत इत्यथेः । ‘आत्मानं चेद्विजानीयाद्यमस्मीति पृम्पः । किमिच्छन्कस्य कामाय शरीरमनुपंज्वरेत् इति श्रुतेः । उपजातिवृत्तम् ॥ ८८ ॥ [ परमेवाऽऽत्यन्तिकनिर्विकल्पमेव यथा स्यात्तथेत्यर्थः । यतो विमुक्तताऽऽत्मभावेनाद्वैतात्मत्वेन संततं ध्येया ध्यातुं योग्या निदिध्यासनकालावच्छेदेनास्त्यतो देहादिगतामहंवियं ज हि त्यजेति पूर्वार्धगतेन सह संबन्धः ] ॥ ८८ ॥ यत्र ममताऽप्ययुक्ता तत्राहंतायाः का कथेत्याशयेनाऽऽह । काकादेः साधार णत्वाद्वपुषि दुःखहेतुं ममतां त्यज । तद्वहिरर्थविषयां च दुःखकारणभूतां तां परित्यज । यावतः कुरुते जन्तुः संबन्धान्मनसः पियान् । तवन्तोऽस्य निखन्यन्त हृदये शोकशाङ्कव: इति । ममता दुःखहेतुभूतेति त्वं जानामीत्याशयेनाऽऽह । हे विद्वन्निति । कर्त च्यमुपदिशति । निर्विशं समस्तशङ्काकलङ्कविनिर्मुक्तं विजातीयपत्ययररिं चित्तं परमात्मनि स्थापय । वसन्ततिलका वृत्तम् ॥ ८९ ।। १ क. ख. घ. 'तं ध्येयाऽऽ। २ ख. 'जहाहि । ३ ६. 'रुद्धत'। ४ क. ग. तावन्त एव ख् ।